पृष्ठम्:हस्त्यायुर्वेदः.pdf/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६२ पालकाप्यमुनिविरचितो- [६ दायस्वाने कैक्षाभागे मर्म नवाङ्गुलप्रमाणम् । वङ्गक्षणमध्ये मर्म दशाङ्गलप्रमाणम् । जिह्वामूले मर्म व्यङ्गुलप्रमाणमिति । एषामन्यतमे मर्मणि गाढविद्धः सद्यः प्राणैर्वियुज्यते ॥ इत्येतानि चैतुत्रिंशति सद्यः प्राणहराणि ॥ अत ऊध्र्व छवीनां भिन्नानां लक्षणं व्याख्यास्यामः । इह स्खलु भोः षट् छव्यो भवन्ति हस्तिनः । तत्र पदा प्रथमा छविर्भिद्यते, तदा पुरीषोदकनिभ स्रावो भवति । द्वितीयायामुदकश्रा(स्रा)वः । तृतीयायां शोणितश्रा(स्रा)वः । चतुण्य मेदःश्रा(स्रा)वः । पञ्चम्यां मज्जश्रा(स्रा)वः । षष्ठयां मर्माभिघातो ज्ञेपः॥ अत ऊध्वं दन्तिनां मर्माणि कालान्तरमाणहराणि वक्ष्यामः । तत्र सकु टिकामध्ये मर्म षडङ्गुलप्रमाणम्, तत्र गाढं विद्धो मासत्रयान्म्रियते । तलसँ धिमध्ये मर्म षडङ्गलप्रमाणम्, तत्र विद्धो मासत्रयान्त्रिपते । कूर्ममध्ये मर्म षडङ्गलप्रमाणम्, तत्र गाढं विद्धः पण्मासाभ्यन्तरे विनश्यति । प्रोहसंधिमध्ये मर्म षडङ्गलप्रमाणम्, तत्र गाढं विद्धो मासद्वयेन म्रियते । यतस्थाने मर्म सप्ताङ्गुलप्रमाणम्, तत्र गाढविद्धो मासद्वपान्म्रयते । विक्षोभमध्ये मर्म सप्ताडू लप्रमाणम्, तत्र गाढं विद्धः षण्मासाभ्यन्तरे म्रियते। प्रतिमानमध्ये मर्म सप्ता डुलप्रमाणम्, तत्र गाढं विद्धो मासत्रयान्नियते । पंलिहस्तमध्ये मर्म सम्राङ्ग लप्रमाणं, तत्र गाढं विद्धो मासत्रयान्म्रियते । यस्थिमध्ये मर्म स णम्, तत्र गाढं विद्रो मासत्रयाद्वापद्यते । वाहित्थमध्ये मर्म सप्ताङ्गलप्रमा णम्, तत्र गाढं िवदःषण्मासाभ्यन्तरे िवनश्यति। शम्बुकमध्ये मर्माष्टलप्रमा णम्, तत्र गाढं विद्रो मासत्रपाद्यापद्यवे । वक्षःसंधिमध्ये मर्माष्टाङ्गलप्रमाणम्, तत्र गाढं विद्रो मासद्वयान्म्रियते । कुक्षिमध्ये मर्माष्टाङ्गलप्रमाणम्, तत्र गाढं विद्धो मासद्वपान्म्रियते । संदानभागमध्ये मर्माष्टाङ्गलप्रमाणम्, तत्र गाढं विद्धः षण्मासाभ्यन्तरे विनश्यति। इत्येतानि पञ्चविंशतिमर्माणि कालान्तरमाणहराणि॥ अत ऊध्र्वे वैगुण्यकराणां लक्षणं वक्ष्यामः। कटर्कणमुखतालुनेत्रचूचुकपायु मेहनहस्तश्रो(स्रोतः पञ्चदश प्रत्येकं चतुरङ्गुलप्रमाणम्, तत्र गाढं विद्रो T' । कण्ठमध्ये मर्म सप्ताङ्गुलप्रमाणम् । इत्यधिकमितः परं कपुस्तके ।

  • आदर्शद्वयेऽपि तुल्यः पाठः । तथाऽप्युक्तसंख्या तु न लभ्यते ॥

१ क. पर्णिह°। २ क, ख. *ते । अस्थि" । ३ क. "मः । तालुपायुमेहनहस्तमुखकण्ठ कर्णनेत्रचूचुकश्रों० ।