पृष्ठम्:हस्त्यायुर्वेदः.pdf/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

थनां संग्रामे शक्तयष्टितोमरपरशुभिण्डिमालाभिघातादभिहृतदेहानां कथं कर्माणि विज्ञेयानि । तेषां भगवन्कति कर्मा(र्म)णि, किं च मर्मप्रमाणम्, कथं वा चिकित्सेत, केन वा शास्त्रानुसारेण मर्मपदेशा विज्ञेपाः, न शक्यं मर्माण्य जाता(ज्ञात्रा) शस्राद(दि)चारणं कर्तुम् । यथा वारणानां न चाऽऽबाधकरं भवति, तथा मे वक्तुमर्हसि । भगवञ्शुश्रूषुरस्मि' इति ॥ ततः पालकाप्यः प्रोवाच-इह खेलु भो वारणानां सप्तोत्तरमर्मशतम् । पूर्वमेव तु शरीरविचये मर्मसंग्रहे समासतो व्याख्यातम् । मर्मप्रमाणमिदानीं पथा विज्ञायते नागस्य शरीरे तद्वक्ष्यामः--तत्रावग्रहहृदयाण्डकोशवातकुम्भ बिम्बकपणवनाभिनिष्कोस(श)मुष्ककमृदुकुक्षिः । तत्र गुदाण्डकोशे हृदयमेढूमध्योदरकरप्रत्यङ्गं सप्रतीकाशप्रतीमानगुहस्तन प्रोहसंदानभागग्रन्थिसकुटिकातलपलिहस्तवि(च)कारन्धान्तरापरकुक्षी (?) क रीषप्रस्रावकटनयनकर्णहस्तवदनतालुस्रोत:कक्षाभागनिष्कोशमन्यान्तबहुपण वकबिम्बकवातकुम्भा अपस्करराष्ठीव्यमृदुकुक्षिगलपृष्ठयतस्थानग्रीवामन्याभाग तालुवाहित्थशम्बुकजिह्वाविलावङ्क्षणविक्षोभचूचुकमुष्ककूर्मासतलसंधिन्यस्थि क्षपकलाभागांसेषु नरसंध्युरसि चेति । स्तनंचिकालमध्यभागतालुमेहनरन्ध गलकण्ठकक्षावङ्क्षणजिह्वासकुटिकातलसंधिकूर्मप्रोहसंधिपतस्थानविक्षोभमति मानपलिहस्तक्यस्विवाहित्थशम्बुकवक्षःसंधिकुक्षमध्यसुरसंदानभागकटकर्णमुस्व तालुनेत्रचूचुकपायुमेहनहस्तश्रो(स्रोतांस्यष्टांव्यगुहभोगप्रत्यङ्गसगुहान्तरबाहुग्री वांविभागापस्करे करीषस्रावशंबुककरमध्यप्रतीकाशां सक्षयभागकलाभागान्तरा परोदरपृष्ठमध्याख्यानां सद्य:प्राणहरकालान्तरमाणहरसशल्पप्राणहरवैगुण्यक राणां मर्मणां सप्तोत्तरशतं विज्ञेयम् ।। इदानीमेषां विभागं प्रमाणं व्याख्यास्यामः । तत्र गुदमध्ये मर्म षडङ्गलप्रमाणम् । हृदयमध्ये मर्माष्टाङ्गुलप्रमाणम् । अण्डकोशमध्ये मर्म षडङ्गुलप्रमाणम् । बिम्बकमध्ये मर्म षडङ्गुलप्रमाणम् । पणवकमध्ये मर्म षडङ्गलप्रमाणम् । नाभिमध्ये मर्म पडङ्गलप्रमाणम् । निष्को शमध्ये मर्म षडङ्गलप्रमाणम् । मुष्ककमध्६ मर्म षडङ्गलप्रमाणम् । मृदुकुक्षि मध्ये मर्म चतुरङ्गलप्रमाणम्। स्तनमध्ये मर्म षडङ्गलप्रमाणम् । चिङ्कामध्ये मर्म षडङ्गलप्रमाणम् । तलमध्ये मर्माष्टाङ्गलप्रमाणम् । मन्याभागे भर्म चतुरङ्गलम माणम् । तालुमध्ये मर्म चतुरङ्गुलप्रमाणम् । मेहनमध्ये मर्म चतुरङ्गुलप्रमा णम् । रन्धमध्ये मर्म सप्ताङ्गलमाणम् । गलमध्ये मर्म सप्ताङ्गुलमाणम् । १ क. °नभाग१० । २ क. ०वेिलागा० ।