पृष्ठम्:हस्त्यायुर्वेदः.pdf/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्वनिविरचितो– अथाष्टादशोऽध्यायः । षोडशा दशनाः प्रोक्ता नागानां सगदा नृप । द्वावन्यावधिकौ दन्ताचुपर्युध्यै च विज्ञेयौ । हैन्वस्थिसंधिरुद्धो वायुर्मज्जास्थिहणं कुरुते । हन्वस्थिदन्तदोषादधिदन्तैस्यानतस्य नश्वरतः ॥ स्ववेदना स्यात्सुदारुणा तेन दन्तमूलेषु । परुषच्छविर्विवर्णा कृशाश्च मन्दाभिलाषश्च ॥ तस्य गलग्रहनिर्मितयत्रेण सुपपत्रितस्य नागस्य । स्तम्भालितस्य राजन्विकासमुविदारितांस्यस्य ॥ द्वात्रिंशदङ्गुलायतदशनपरिणाहेन लोहदण्डेन । एणीपदेन कुर्यादुद्धरणं तयोः सम्यक् ॥ व्रीहिमुखेन च परिशोध्य सर्वतस्तस्य दन्तमूलेषु । उषणोदकधौतेषु मधुसर्पिः पूरणं दद्यात् ॥ तेन मुस्खी भवति गजो बलवान्सुखविक्रमश्चैव । इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने तृतीये शल्यस्थानेऽधिक दन्तचिकित्सितं नामाष्टादशोऽध्यायः ।। १८ ।। अथैकोनविंशोऽध्यायः । [ ३ शश्यस्थाने देवराजप्रतीकाशश्चम्पायां पृथिवीपतिः । अभिगम्याऽऽश्रमं पुण्यं पालकाप्पमथाब्रवीत् ॥ १ ॥ यथा शिरा भवेच्छिन्ना भिन्ना वायुवघट्टिता ॥ अतिप्रवृत्ते रुधिरे स्थापनं च कथं भवेत् ॥ २ ॥ एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् । शृणु सर्वे महाराज विक्षिपेन चेतसा ॥ ३ ॥ केवलं शास्रकर्माणि ह्यशास्त्रज्ञाश्चिकित्सकाः ।। मर्मभागमजानन्तो हिंस्युः स्रायुशिरास्तथा ॥ ४ ॥ आदर्शद्वयेऽपि तुल्यत्वादस्मिन्नध्याये छन्दोविचितिश्चिन्तनीया । । १ क. हस्तिसं० । २ क. °न्तश्चावृश्चनः । वर० . । ३ क. "ता यस्य । ४ ख

  • तः स्वस्य दन्तेषु । ९ क. ख. शिरो । ६ क. विवृद्धिता । ।