पृष्ठम्:हस्त्यायुर्वेदः.pdf/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६ शिराब्यूहव्यघाध्यायः] इस्यायुर्वेदः । विद्वक्षिकूटयोर्मध्ये ईषिकाग्रे प्रतिष्ठिताः ।। तथा घाटाप्रदेशे च बिन्दुमध्यं तथैव च ॥ ४ ॥ निर्याणोपरि चाप्यन्याः शङ्खदेशे समाश्रिताः ॥ शिरोगेषु नागानामेता वेध्या भहीपते ॥ १०५ ।। सेनैव विधिना बद्ध्वा यथा पूर्व प्रकीर्तिताः ॥ अक्षिकूटकटश्रो(स्रो)तोमध्ये सम्पग्व्यवस्थिताः ॥ ६ ॥ तथैव तालुकृष्णान्ते मध्ये विध्येदतन्द्रितः ॥ वितानास्यप्रदेशानां मध्ये जिह्वान्तरे तथा ॥ ७ ॥ अपाङ्गदेशस्याधस्ताद्या कनीनिकयोरपि । नेत्ररोगेषु नागानामेता वेध्याः पृथक्शिराः ॥ ८ ॥ एतेनैवोपचारेण समं विज्ञाय तत्त्वतः । यतः स्थानस्य चाधस्ताद्गुह्यभागस्य चोपरि ॥ ९ ॥ विध्येदसंक्षमाद्वैद्यः शिरामेनां गलग्रहे ॥ तथा सगदयोश्चापि मन्याभागान्तरे तथा ॥ ११० ।। विध्येदत्वरया वैद्यः कण्ठव्याधिषु हस्तिनः ॥ स्तनान्तरस्प चाधस्तादष्टाङ्गुलसमा स्थिताः ॥ ११ ॥ विध्येत्प्रमाणतो वैद्यस्तथा द्रोणिकसंस्थिताः । नृाभिप्रदेशे विज्ञेया ऊध्र्वादष्टादशाङ्गला ॥ १२ ॥ शोफे द्रोणीकसंस्थाने सम्यग्ज्ञात्वाऽथ वेधयेत् ।। नाभिमदेशे पाचें च चतुरङ्गुल संमिताम् ॥ १३ ॥ मध्ये त्वनुसृतां विध्येत्तथैवान्तरसूनयोः । शुक्रमदेशस्याधस्तादण्डकोशादधस्तथा ।। १४ ।। विज्ञाय दोषोपचयं यथावदवसेचयेत् ।। तेनैव क्रमयोगेन(ण) द्रोणीकवदुपाचरेत् ॥ १५ ॥ तथैव मन्ययोश्चापि बहिरन्तैश्च संस्थितौ । शिरे(रो) यब्रविधानेन त्वंचा पीडयावसेचयेत् ॥ १६ ॥ अतः संदानभागस्य मध्ये बद्ध्वाऽवसेचयेत् ।। तेनैव क्रमयोगेन(ण) यथापूर्वामुदाहृतम् ॥ १७ ॥

  • ‘त्ववपीड्या' इति तूचितम् ।

१ क. "वाऽऽमग । २ क. "न्तस्य सं० । १ क. त्वचपी० ।