पृष्ठम्:हस्त्यायुर्वेदः.pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्यातु वेदनया युक्तो विशेषान्मर्मजो प्रणः ॥ स्रोतांसि यानि यान्भावान्भस्रवन्तीह दन्तिनाम् ॥ ५४ ॥ तेषु व्रणविभिन्नेषु स एव स्रवति सवः | द्विविधं स्यादधिष्ठानं व्रणानां विभागतः ॥ ५५ ॥ विज्ञेयं दुरधिष्ठानं स्वास्व)धिष्ठानं तथैव च । तत्र तावत्प्रवक्ष्यामि दुःस्वाधिष्ठानमादितः ॥ ५६ ॥ हैस्ते मर्मसु कोष्ठ च धमनीष्वथ संधिषु । सिरान्नाय्वस्थिषु तथा दुरधिष्ठानजा व्रणाः ॥ ५७ ॥ स्वधिष्ठानास्तु शेषेषु विज्ञेया वस्नुषु व्रणाः । दुःखाधिष्ठानहेतूंश्च प्रवक्ष्याम्यत उत्तरम् ॥ ५८ ॥ तत्रोपद्रवबाहुल्याडुःखो मर्माश्रितो त्रणः ॥ सतताभ्यवहारेण दुःस्वः स्याद्धमनंत्रिणः ॥ ५९ ॥ असृक्तेः शिराजस्तु चलनात्संधिदेशजः । स्वकर्मविक्रियाभावाहुःखः स्याद्धस्तजो व्रणः ॥ ६० ॥ स्रायुजालाकुलभयादुःखः स्राय्वाश्रयो त्रैणः । कोष्ठजो दुश्चिकित्स्यः स्यात्समानानिलदूषणात् ॥ ६१ ॥ अस्थिर्जः स्रहमांसाभ्यां रहितो नोपरोहति ॥ मज्जातिस्रवणादुःखो भवेन्मञ्जाश्रयो व्रणः ॥ ६२ ॥ ऋणस्य त्रिविधस्त्वात्मा शाश्वतः संप्रवक्ष्यते ॥ सृचिकित्स्योऽचिकित्स्यश्च दुश्चिकित्स्यश्च लक्षणैः ॥ ६३ ॥ तत्र पद्मपलाशाभः स्वाकृतिलजगन्धिकः । चिकित्स्यः स्वधिष्ठानो व्रणोपद्रववर्जितः ॥ ६४ ॥ यस्तु वातादिभिर्देवैर्दूषितः कठिनो महान् । । स शल्यविषकोशामिसंस्थानः स्थानदोषवान् ॥ ६५ ॥ अतिस्थूलं कृशं वाऽपि यो गजं समुपाश्रितः । परुषः कठिनः कृष्णो दुश्चिकित्स्यः स उच्यते ॥ ६६ ॥ दुचिकित्सितरूपस्य यो लिखैरन्वितो व्रणः ॥ अनिष्टश्चापशस्तैश्च गन्धैर्यश्च समन्वितः ॥ ६७ ॥ १ क. "सेि योनिजान्भा० । २ ख. हस्तम” । ३ क. "छेषु ध० । ४ क. भवेत्। ९ क. १जः स्रायुमां० । ६ क. प्रचक्षते । ७ क, ०तिर्वाज " । ८ क. ०न् । शल्यविषमक ।