पृष्ठम्:हस्त्यायुर्वेदः.pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८८ पालकाण्युनििवरिचतो– प्रदेहैः शीतलैचैवं प्रदिखासु पुनः पुनः ॥ सर्पिः क्षीरं च नागाय विधिवत्संमदापयेत् ॥ ९१ ॥ शीतांश्च मधुरांचैव भावांस्तस्मै प्रदापयेत् ॥ यद्येवं नोपपद्येत क्षिझे माणैर्विमुच्यते ॥ ९२ ॥ सम्यग्वेधे सु दोषाणां समो वृद्धिर्विपर्ययात् ॥ छठयस्त्वपि महाराज षट्पूर्वं संप्रकीर्तिताः ॥ ९३ ।। तासामेकैकशो राजन्प्रमाणं संप्रवक्ष्यते । एका तत्र प्रमाणेन अध्यर्ध(ध) यवसंमिताः(ता) ॥ ९४ ॥ प्रथमा तु महीपाल द्वितीया द्वियवा स्मृता ॥ शेषाणामेतदेवाऽऽहुः प्रमाणं मनुजाधिप ॥ ९५ ॥ अध्यर्धाङ्गलमेवं तु प्रमाणमभिधीयते । धेयथुस्वपि विज्ञेयो दोषलिङ्गेः पृथग्विधैः ॥ ९६ ॥ व्रीहिवक्त्रेण शत्रेण विध्येदत्वरया भिषक् ॥ अथ चोत्पलपत्रेण कुशपत्रेण वा पुनः ॥ ९७ ॥ पैङ्गलं निर्गमं कुर्याद्भागं विज्ञाय तत्त्वतः । बहुलं च चतुश्चैव प्रदेशमभिलक्षपेत् ॥ ९८ ॥ पथोक्तनोपचारेण विध्येदत्वरपा नृप ।। दोषलिङ्गेन निर्मुक्त विशुद्धं दोषवर्जितम् ॥ ९९ ॥ प्रमुच्य यत्रं विधिना निर्वाणे चावगाहपेत् ।। निवृत्तं पीतपानीपं भोजयेद्रसभोजनम् ॥ १०० ।। एष संवें विधिः कार्ये भिषजा सिद्धिमिच्छता ।। [ ३ शल्यस्याने -- :८C०:- अत ऊध्वं शिराणां तु विचयः संप्रवक्ष्यते ॥ १ ॥ पेषु देशेषु यं दोषं यथोवद्विनिवर्तयेत् ॥ संप्रवक्ष्यामि नागानां तन्मे निगदतः शृणु ॥ २ ॥ अवग्रहस्य चाधस्तात्कुम्भस्योपरि संश्रिताः ॥ विद्ववग्रहयोश्चापि(?) विज्ञेपा मध्यमाश्रिताः ॥ ३ ॥

  • ‘श्चापि' इति भवेत् ।

१ क, श्वयथु स्व°। २ क. अङ्गुलं । ३ क. पूर्वो । ४ क. ख. संप्रचक्ष्यते । ५ क. ०थाविधि नि० ।