पृष्ठम्:हस्त्यायुर्वेदः.pdf/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६ शिराष्यूहव्यधाध्यायः ] इस्त्यायुर्वेदः । 8८७ सद्यस्यजति तं दोषं त्यक्त्वा च सुखमिच्छति। तस्माद्विश्रा(स्रावणं कार्य विधिनाऽनेन हस्तिनाम् ॥ ७७ ॥ यथाविकारं कुर्वीत भोजयेत्तचतथा द्विपम् ॥ सप्ताहं पश्चरात्रं वा त्रिरात्रमपि वा पुनः ॥ ७८ ॥ स्निग्धस्वेदोपपभस्य समीक्ष्य गुरुलाघवम् ॥ विमृश्य पूर्व श्वयथु दोषलिङ्गसमन्वितम् ।। ७९ ॥ बन्धैर्यथोत्तैः कर्तव्यं यथावदवपीडनम् ॥ तस्य तस्य प्रदेशस्य चेष्टानां संनिवारणम् ॥ ८० ॥- यत्रं विधि कुर्वीत बन्धेनानेन संयतम् ॥ मोहसंदानभागेषु तथाऽपस्कारयोरपि(?) ॥ ८१ ॥ अष्ठीव्ययोस्तु भागानां पूर्वसंस्थानमिष्यते ॥ लक्ष्णं समाहितं चैव नाभितः षोडशाङ्गलम् ॥ ८२ ॥ तथा सृश्चिकसंस्थानं शिरस्या(स्य)यं विधीयते ॥ वंशे चोत्तरप्रदे(रदे)शे च समं कर्कटकान्वितम् ॥ ८३ ॥ मन्याभागांसदेशेषु कूर्मसंस्थानमिष्यते ॥ एवं यन्नविधिः प्रोक्तो विस्तरेण महीपते ॥ ८४ ॥ एवं बन्धनबद्धस्य विश्रा(स्रा)वणमतः परम् । अनेन क्रमयोगेन(ण) स्थानादुन्नाम्पते(?) शिराः ॥ ८५ ॥ तासां परीक्षा कर्तव्या वैचैः सम्यक्प्रपीडने ॥ पाणिना पदयोस्तन्न अङ्गधेन प्रपीडयेत् ॥ ८६ ॥ विज्ञाय नागं भागज्ञो विध्येतु ताः समाहिताः । तत्राऽऽविद्धाः शिराः सम्यक्पाश्र्वदेशेऽथवा भवेत् ॥ ८७ ॥ न प्रवर्तते सा सम्यक्तस्या दोषो न शाम्यति ॥ स्तम्भः शोफश्च दाहश् क्षिप्रमेवोपजायते ॥ ८ ॥ तस्माद्यथोतं कर्तव्यं पुनस्तस्य चिकित्सितम् ॥ अतिविद्धा तु पा कष्टदोषमत्यर्थमीरयेत् ॥ ८९ ॥ तस्माद्यञ्चविधिस्तत्र क्षिप्रमेव व मोक्षयेत् ।। मुक्तबन्धनमीश्वेवं सलिले त्ववगाहयेत् ॥ ९० ॥ १ क. "नागेन । २ क. संयुतम् । ३ क. *ते ॥ ते वंशे चेत्प्रदे° । ४ क. पार्श्वयो० । ५ क. १माम्येवं ।