पृष्ठम्:हस्त्यायुर्वेदः.pdf/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८४ पालकाप्यमुनिविरचितो- . [३ शश्वस्थाने तृतीये वा चतुर्थे वा पञ्चवर्णः स उच्यते ॥ पञ्चमेऽहनि षष्ठ वा किंशुकाभ इति स्मृतः ॥ ३८ ॥ एवं श्रुत्रं तु नागानां सप्ताहात्परिपच्पते ॥ दोषाणां प्रकृतिं ज्ञात्वा शिराव्यूहविशारदः ॥ ३९ ॥ शस्रकर्मणि निष्णातो पृचैषां श्रेष्ठ उच्पते ॥ सर्वासां सरितां यद्वत्प्रतिष्ठा वरुणालयः ॥ ४० ॥ तद्रत्सिराणां सर्वासां प्रतिष्ठा हृदयं स्मृतम् ॥ तस्माद्भर्मे शयानस्य व्यक्तं भवति हस्तिनः ॥ ४१ ॥ हृदयं च शिरचैव तस्मात्कापो विवर्धते ॥ शरीरविचये पूर्व मया सम्यक्प्रकीत्र्यते ॥ ४२ ॥ मैनोबुद्धयन्तरास्थानां त्रिविधः सोऽनुकीत्र्यते । अन्तरात्मा शरीरस्य मुह्यति त्वजः क्षपात् ॥ ४३ ॥ मात्रया रुधिरं तस्मादुष्टमप्यपकर्षयेत् ।। तत्र मात्राप्रमाणं तु द्विविधं संप्रवक्षपते ॥ ४४ ॥ शरीरमभिविज्ञेयं यथादोषं यथाबलम् । वातजानां तथा प्रोतं लिङ्गं तस्माद्विवर्जितम् ॥ ४५ ॥ न विश्रा(स्रा)व्यं महीपाल प्राणवत्स्वपि हस्तिषु ॥ कदाचिद्दोषबाहुल्यात्स्कनं नैव प्रवर्तते ॥ ४६ ॥ तत्र तु मात्राप्रमाणं यथावदुपदेक्ष्यते ॥ तस्मान्मात्राप्रमाणाञ्च विशेषं संप्रचक्षते ॥ ४७ ॥ तत्र मात्राप्रमाणं तु यथावदुपदेक्ष्यते ॥ सप्तमं भागमाहारात्तस्माद्रक्तं तु मोक्षपेत् ॥ ४८ ॥ सप्तारनेर्महीपाल भागेनानेन संमितम् ॥ शेषाणां वारणानां तु श्रा(स्रा)चपेन्मतिमान्भिषक् ॥ ४९ ॥ एवं प्रमाणमुद्दिष्टमतः शृणु महीपते ।। येषां गजानां वै श्रा(स्रा)व्यमवश्रा(मा)च्याश्च ये गजाः ॥५०॥ वातरोगेषु नागानामविश्राव्प भिषग्भवेत् । कृशे हीनेन्द्रिये चैव हृद्रोगे गुल्म एव च ॥ ११ ॥ तथाऽतिबाले वृद्रे च प्रकृत्या दुर्बले गजे ॥ शेषे च वातमकृतावतिवातग्रहान्वते ॥ ५२ ॥ १ क. तद्वच्छरीरिणां सर्वप्र० । २ क. शिरात्रैव । ३ इ. मन्ये बु ।