पृष्ठम्:हस्त्यायुर्वेदः.pdf/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६ नाडीव्रणचिकित्सिताध्यायः] इस्त्यांयुर्वेदः । ४७७ गन्धाः स्रावाश्च वर्णाश्च व्रणानां ये प्रकीर्तिताः । वातादिदोषप्राप्तानां नाडीष्वपि हि तान्विदुः । इति नाही पञ्चविधाऽऽख्याता ।। तत्र क नाव्रणा जायते नाडी व्रणादेवोपजायते । ममादाद्वाऽपि वृद्धा सा कृच्छूसाध्या धुवं भवेत् । अत ऊध्र्वं पेषु भागेषु ऋणा नाड्यो वा साध्याः, तान्व्याख्यास्यामः । तत्र दन्तवेष्टास्थिसंधिकक्षानुगता नखनयनमर्मतलप्रोहविष्कापस्कराठीव्पपलि(त)ह- स्तनस्वान्तरमत्यङ्गप्रतीकाशकुक्ष्यङ्गुलिमण्डूकीवक्त्रसक्थिसकुटिकान्तरापरिक्षो भजवैभागोत्कृष्टावग्रहे वंशारन्ध्राण्डकोशगात्रसंदानक्षयभागस्रोतोन्तरतालुनाभि मेट्रकर्णतलसंधितलवातकुम्भक्ष्यस्थिजघनगुह(द)भागेषु चेति ॥ भागेष्वेतेषु पा नाड्यो गम्भीरानुगताश्च याः । तासु सम्यक्मयुक्ताऽपि क्रिया दुःखेन सिध्यति ॥ अथ या नाडी (?) तिर्पगता परंपरागता मण्डलावतां कुटिला अनुगता (बहुपदेशानुगता दन्तवेशे(टे)ऽनुगता अस्थिसंधिगता नेत्रानुगताश्च भव न्त्येता या नाड्यः, ताम् सिद्धिर्न भवति । त्वचमनुगता) अधोमुखा या नाड्यः साध्या भवन्ति ताः ।। तत्र श्लोकौ अनुनीय भिषक् सम्यक् परिमृश्य च भागशः । छिन्द्यातु नाडीं शत्रेण अनुलोमं प्रयक्षतः । शस्रमेव तु भैषज्यं ये शस्रकुशला नराः । उत्तानो हि व्रणो राजन्क्षिप्रमेव प्ररोहति ॥ अथाङ्गराजः पुनरेव पप्रच्छ पालकाप्यम्--'भगवन्यत्र शस्रपथो नास्ति नास्ति क्षारपथोऽपि वा, तत्र वारणानां भाडीव्रणचिकित्सितं कथं कर्तव्यम् ॥ ततः प्रोवाच भगवान्पालकाप्यः-इह स्वलु यदा वैद्यः शस्रामिक्षारकर्म क्रियासु विशेषं नोपलभते, तदा त्रिकटुकहरिद्रालाङ्गलकीदन्ती('समभागानि पष्टा नाडीव्रणपूरणं दद्यात् । शृङ्गीकटुकरोहिणीगवेधुकार्कमूलविडङ्गसर्षपा धनुराकारमध्यस्थः पाठो नास्ति खपुस्तके । धनुराकारमध्यस्थो नास्ति पाठः कपुस्तके । १ क. "न्तचेष्टा० । २ क. ०वनोत्कृ० । ३ क. १०मृष्य च ।