पृष्ठम्:हस्त्यायुर्वेदः.pdf/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७६ पालकाप्यमुनिविरचितो- [ ३ शल्यस्थाने अतः परं व्रणावस्थान्तरहेतून्वक्ष्यामः--क्रियाविपर्ययादुत्तानशयमवध न्धप्रतिहस्त्यभिघातपतनाध्वगमनाद्वेद्योपरोध ये द्विपोनयो ऋणाः संभ वन्ति । इह खलु भो नागानां यो व्रणो मयूरग्रीवाभश्चन्द्रकी समन्ततोऽभिक्ष ठिनः, तमसाध्यं विद्यात् । मत्स्यगन्धिः पिच्छिलः, तमसाध्यं विद्यात् । अथवा यस्य नागस्य कृष्णः परिशुष्कृो विगन्धो व्रणः, तमसाध्यं विद्यात् । कोष्ठान्तर्गतः परिश्रा(स्रावी प्रवृद्धश्चापि दुर्गन्धः, तमसाध्यं विद्यात् । आ(औदुम्बरमुखः शोणितपरिश्रा(स्रावी व्रणः कठिनः, तमसाध्यं विद्यात् । वल्मीकसंस्थानः कृमियुक्तो बहुच्छिद्रः शोणितप्रस्रावः, तमसाध्यं विद्यात् । बिम्बोष्ठ उन्नतमध्यः कृष्णपर्यन्तः कठिनो व्रणो दुर्गन्धश्चेति तमसाध्यं विद्यात्। मर्माभिघातशोणितपरिभा(स्रा)वी जलयन्नवत्, तमसाध्यं विद्यात् । पूयशो णितपरिस्रावी व्रणः पिच्छिलो दुर्गन्धश्चेति तमसाध्यं विद्यात् । मांसावगा ढोऽस्थिभागाश्रित आड(औदु)म्बरमुखः, तमसाध्यं विद्यात् । सिरानुगत: परिस्रावी पिच्छिल आध्मातो ब्रणः, तमसाध्यं विद्यात् । अथ कठिनोष्ठः सवे दनः सशोफः, तमसाध्यं विद्यात् । तत्र लोकः निर्गन्धो परिस्रावी पथपत्रमभी व्रणः । निर्वेदनस्तथोत्तानो निर्दोष इति तं विदुः ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने तृतीये शल्यस्थाने ब्रणचिकित्सितं नाम चतुर्दशोऽध्यायः ।। १४ ।। अथ पञ्चदशोऽध्यायः । अत ऊध्वै नाडीव्रणसमुत्थानचिकित्सितं व्याख्यास्यामा-इति ह स्माऽऽह भगवान्पालकाप्यः- अथ भोः खलु वारणानां वातपित्तकफसंनिपाताभिघातैः पञ्चविधा नाञ्यो भवन्ति । यदा तु शल्यं प्रविशत्यन्तर्देहे वारणानां वातपित्तकफादिभिर्दोषेदुष्टर्मास शोणितं भूयः स्वभागानुगतं कालप्राप्तौ न निवार्यते शत्रैरन्तर्देहे ततः पूपब हुत्वात्समुदीर्यते । ततः संनिरुद्धे मार्ग उन्मार्गेण गच्छति । ततो धातूनभ्प न्तराश्रितान्दूषयित्वा तद्वत्र्मगमनाद्वतिरुच्यत इति । अजस्र पतः स्रवति पूपं पिच्छिलं विवर्ण नाडीवत् । तस्मान्नाडीमभिनिर्दिशेदिति । १ क. "दुत्थान ” ।