पृष्ठम्:हस्त्यायुर्वेदः.pdf/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४ अपचिकित्साध्यायः] इस्पायुर्वेदः । अथानुपूर्वशास्रोतं कुर्याद्दणचिकित्सितम् ।। ३३ ।। इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने तृतीये शख्यस्थाने विद्रधिरोगो नाम श्रपोदशोऽध्यायः ॥ १३ ॥ अथ चतुर्दशोऽध्यायः । अथ स्वलु भगवन्तं भार्गवष्यश्रमपदं जपनिपमथुश्रूषान्वितं शिष्पगणप रिवृतं पालकाप्यमभिवाद्याभिगम्य संमान्यात्रवीद्राजा रोमपादोऽङ्गाधिपतिः भगवन्य इमे व्रणा ह्यशनिप्रत्यया नानास्रावलिङ्गवेदनाबहुला गतिमन्तो, नाडीव्रणाः संभवन्ति । तेषां साध्यासाध्पलक्षणं साधनं च निरवशेषेण व्याख्या तुमर्हसि ? ॥ स एव भगवानङ्गेन प्रश्रमुक्तः प्रोवाच पालकाप्पः-‘वत्स रोमपाद, वार णानां द्वैौ ब्रणौ भवतः-शारीर आगन्तुश्च । तयोः शारीरं वातपिचकफशो णितसंनिपातात्मकं विद्यात् । आगन्तुं काष्ठपतनाश्मप्राजनवधबन्धपीडनामि विषनिमित्तम् ।। तत्राऽऽगन्तोत्रैणस्य तत्क्षणमेवोष्मणः प्रशान्त्यर्थं सद्यःकृतविहिताः शीत प्रायाः क्रिया विहिताः, व्रणस्य रोपणार्थं च यथा मधु घृतं पय इति ॥ अतः परं दोषविशेषाः शारीरा भवन्ति । तत्राऽऽहाररसवैषम्पात्सात्म्यदुर्वेि पर्ययात्कालप्रकर्षास्वागन्तुर्बणो वातपित्तकफानामन्पतमेनाभिभूयते । तस्य लिङ्गमदर्शनं पृथक्त्वेनोपदेक्ष्यामः । तत्र श्लोक रुक्षः परुषवर्णाभः शिराभिः संहतः स्वरः । गम्भीरानुगतचैव विज्ञेयो वातिको व्रणः । पैत्तिको दाहबहुलो ब्रणः कुणपगन्धिकः । हरिहरिद्रवर्णाभस्त्वऽमांसस्रायुशातनः । सान्द्रः घेतो मृदुश्चैव श्लैष्मिको भन्दवेदनः । महापर्यन्तमूलश्च कण्डूमांचैव यो भवेत् । समस्तैर्लक्षणैरेभिर्वातपित्तकफात्मकैः । संनिपातात्मकं विद्याद्व्रणं व्रणविभागैवित् । ॥१ ख. निर्विशेषेण । २ क. १०गतः ॥ अ० ।