पृष्ठम्:हस्त्यायुर्वेदः.pdf/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२ शस्योद्धरणाध्यायः] ' हस्त्यायुर्वेदः । ४७१ अप्राप्तसंधिशल्पे च शल्यनिर्हरणं भवेत् । विशल्यं च व्रणं कृत्वा भतिकर्म समाचरेत् ॥ ७ ॥ लम्बितं व्यथितं छिन्नमवकृत्तं च यद्भवेत् ॥ दुर्जीतं च व्रणं दृष्टा प्रतिकर्मास्य कारयेत् ॥ ८ ॥ क्षौमसूत्रेण मेधावी.सीवनं चास्य कारपेत् ॥ पूर्वोक्ता च क्रिया तस्य कारयेद्रणशान्तये ॥ ९ ॥ विद्धः शरेण काकोला “ छिन्नरोहयोः । श्रूणैश्च प्रतिचूर्णपेत् ॥ ११० । अथास्य शोफो भवति तेनैव प्रतिलेपयेत् ॥ क्षीरवृक्षकषायेण सर्पिषा चैव धारयेत् ॥ ११ ॥ शुध्यते च व्रणं तस्य क्षिपं चैव प्ररोहति । अथ दिगधेन विद्धस्य वक्ष्यते भेषजक्रमः ।। १२ ।। स्व(श्व)पथोर्दिग्धविद्धस्य पूतिभांससमुद्रवः ॥ श्रा(स्रा)वो भवत्यशुद्धश् भिन्नवर्णश्च जायते ।। १३ ।। स तप्तदेहश्च भवेच्छोफशेषश्च जायते । एतानि पूर्वरूपाणि दिग्धविद्धस्य हस्तिनः ॥ १४ ॥ व्रणं तच्छोधयित्वाऽथ संस्कृतनाथ सर्पिषा ॥ नस्यं तस्य ततो दद्याद् गदं चानुपाचयेत् ।। ११५ ॥ शीतप्रदेहं कुर्याश्च तथा सिध्यति पार्थिव ।। स्तब्धो विवर्णो विःसुप्तो(?)ऋणो यस्य तु हस्तिनः ॥ १६ ॥ स्थापयित्वा युतं स्थाने यन्नयित्वा यथाक्रमम् ।। तन्तुसूत्रपटैर्वाऽपि क्षौमसूत्रेण वा भिषक् ॥ १७ ॥ मुसीवनं व्रणं कृत्वा नागस्यैवं समाचरेत् । मधुव्रणविधानेन प्रतिकुर्याद्रिषग्वरः ॥ १८ ॥ इतीह पृष्टो भगवानङ्गराजेन धीमता । पालकाप्यः क्रियामाह शल्पस्योद्धरणं प्रति ॥ १९ ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदे महाप्रवचने महापाठे तृतीये शल्पस्थाने शल्योद्धरणो नाम द्वादशोऽध्यायः ॥ १२ ॥