पृष्ठम्:हस्त्यायुर्वेदः.pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४६४ पालकाप्यमुनिविरवितो - [ ३ शल्यस्थाने -- प्रनष्टशल्पाहरणं यथावद्वतुमर्हसि ॥ यष्टितोमरशक्त्वृष्टिकिणपः सपरश्वधैः ॥ २ ॥ शरैश्च विविधैधेरैः परमाणापहारिभिः ॥ नाराचैरर्धनाराचैरर्धचन्द्रनिभैस्तथा ॥ ३ ॥ भछेर्वराहकहणैश्च क्षुरमैरिक्षुपत्रकैः ॥ पीलुशङ्कप्रमथनैः शिखराप्रैः सकण्टकैः ॥ ४ ॥ सावरैरर्थकणैश्च शृङ्गशीर्षस्तु कण्टकैः । नालीकैरर्धनालीकैस्तथा घेतसपत्रकैः ॥ ५ ॥ मुकुलाप्रैर्विकीर्णश्च मुद्ररैः कूटमुद्ररैः । एतैश्चान्यैश्च विद्वानां विप्रनष्टमेहामुने ॥ ६ ॥ दृश्यन्ते वारणेन्द्राणां गूढशल्याः सुदारुणाः ॥ ब्रणा हि बहुविश्रा(स्रावा दुर्गन्धाः कठिनास्तथा ॥ ७ ॥ गम्भीरा वेदनामापाः सशोणितपरिश्र(स्र)वाः ॥ न शोधनैः कषापैर्वा विशुध्यन्ति कदाचन ॥ ८ ॥ तेषां यथा चिकित्सा च शोधनं तु सुखं भवेत् ॥ कर्नु यथा च विज्ञेया यत्समुत्थाश्च ये व्रणाः ॥ ९ ॥ असंशयं मे भगवंस्तत्सर्वं वतुमर्हसि ।। ततः प्रोवाच भगवान्पालकाप्यो महामुनिः ॥ १० ॥ ब्रह्मा शास्त्रमिदं प्राह पूर्वमेव प्रजापतेः ॥ मजापतिरथेन्द्राय सोऽधिभ्यां पाकशासनः ॥ ११ ॥ अश्विनौ चापि तौ देवावृषिभ्यः प्रत्यभाषताम् ॥ प्रनष्टशख्याहरणं पालकाप्यो महायशाः ॥ १२ ॥ सद्यःक्षतविधाने च द्विबणीये च तन्मया ॥ ऋणानां लक्षणं कृत्त्रं विस्तरेण प्रकीर्तितम् ॥ १३ ॥ शल्यस्य विमनूष्टस्य लक्षणं शृणु पार्थिव ।। स्थानान्येतानि जानीयाद्येषु शल्पं प्रणश्यति ॥ १४ ॥ तानि सर्वाणि वक्ष्यामि पृथक्त्वेन निबोध मे ।। छविमांसं तथा मेदः संधिः स्रायुस्तथाऽस्थि च ॥ १५ ॥ कोष्ठश्रो(स्रो)तांसि चैवैषां स्थानान्येतानि विद्धि वै ॥ तृणं काष्ठं च विज्ञेयं तथा लोहमयं च यत् ॥ १६ ॥