पृष्ठम्:हस्त्यायुर्वेदः.pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिविरचि-- * [ ३ शल्यस्थाने कोव्यः षडङ्गुलं चैव मधूकं शाकमेव चें ।॥ ५६ ॥ यङ्गुलं त्वगाढं च चतुरस्र समन्ततः ।। चतुरङ्गलविस्तीर्णाः कोट्यस्तत्र च कारयेत् ।। ५७ ।। असंझनान्तमतिर्वेद्यः सत्वमार्ग समाश्रितः ।। ये त्रयोदश बन्धा वै मया पूर्व प्रकीर्तिताः ।। ५८ ।। यत्रे प्रवेश्य वै नागो बन्धितव्यो नराधिप ।। ततोऽस्य फलके हस्तं वासयेत विचक्षणः ॥ ५९ ।। नस्पकर्मणि नागानामन्येषु च न वासयेत् ।। सूचीभिरुपधेयश्च ततः स पृथिवीपते ।। ६० ।। उरस्येका ततो देया एकैकाऽ8ीव्ययोः पुनः । अपस्कारे तथा ह्येका एका च जघने भवेत् ।। ६१ ॥ एका मस्तकपिण्डे तु सूची देया नराधिप ।। एकैवाथाऽऽसने देया तथैका पश्चिमासने ॥ ६२ ।। लाङ्गलवंशे दातव्या चैका सूची महीपते । एवमष्टो विधातव्याः पञ्च सूचयः समाहिताः ॥ ६३ ॥ ताभिः परिगृहीतस्य बन्धाः कार्यास्त्विमे पुनः ॥ उत्सङ्गी परिदामी च तथा चैवोरसी पुनः ॥ ६४ ॥ पाददानी च कर्तव्या दृढा यत्रकर्मणि । उदानाश्चापि कर्तव्याश्चत्वारः साधुपूजिताः ॥ ६५ ॥ एवं यो निबद्धस्य बन्धैः सर्वैश्च हस्तिनः । प्रतिकर्म ततः कार्य भिषजा सिद्धिमिच्छता ॥ ६६ ॥ ज्येष्ठयब्रविधानं तु सम्यगेतदुदाहृतम् ॥ यथाप्रमाणविहितं वारणानां महीपते ॥ ६७ ॥ यत्रं तु मध्यमं.कार्य प्रमाणेन समाहितम् । त्रिभागपरिहीणं स्यादुत्तमात्पृथिवीपते ॥ ६८ ॥ कन्यसं मध्यमात्कचिदूनं पञ्चमिहोच्यते ॥ अथवा विभजेद्यत्रं यथाहस्तिप्रमाणतः ॥ ६९ ॥ आयामाधेन नागस्य विस्तारः समुदाहृतः । त्रयाणामपि नागानां यथावदनुपूर्वशः ॥ ७० ॥