पृष्ठम्:हस्त्यायुर्वेदः.pdf/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बन्धयित्वा तु तं रज्जु यूपे कायो(ये)ऽवलम्दपेत् ॥ तयोः प्रदेशयोर्मन्यायुक्तया स्तम्भौ निखानयेत् ॥ २६ ॥ अच्छिद्रौ सुदृढौ हस्वौ बन्धनार्थं विचक्षणः ॥ बालं वासनमप्यस्य निक्षिपेदपरान्तरे ॥ २७ ॥ अनुवृत्तस्यं निर्दिष्टः प्रतिकर्मक्रियाविधिः । वारणस्य यथान्यायमेष ते पृथिवीपते ॥ २८ ॥ -- :<>:- [ ३ शल्यस्थाने भूयोऽङ्गराजः पप्रच्छ पालकाप्यं महामुनिम् ॥ तत्रापि बहवो दोषा दृश्यन्ते मुनिसत्तम ॥ २९ ॥ दृश्यते क्षपभागेषु अंश(स)योः कटयोरपि ॥ विक्षिपत्यपि गात्राणि कर्म चापि न विन्दति ॥ ३० ॥ यथा वै यस्य च भवेन्निराबाधं च दन्तिनः ।। भवेतु विधिवत्स तथा मे वतुमर्हसि ॥ ३१ ॥ तस्य तद्वचनं श्रुत्वा पालकाप्यस्ततोऽब्रवीत् ॥ शृणु पञ्चविधानं मे वारणानां नराधिप ॥ ३२ ॥ प्रत्यासन्नोदके देशे समे मुखपरिक्रमे ॥ शिवे रम्येऽथ वृक्षे वा देवापतनवर्जिते ॥ ३३ ॥ १भन्ना “ श्मशानस्य नगरस्यापि दूरत ।। कार्पः प्रागुत्तरे देशे यत्र सिद्धिरभीप्सिता ॥ ३४ ।। आवासाः पक्षिणां ये च ये वा स्युर्गर्हितद्रुमाः । ये चापि दग्धास्तु भृशमशन्यभिहतास्तु ये ॥ ३५ ॥ अर्धशुष्कास्तु ये वृक्षास्तथैव देवताश्रिताः ।। देवतायतने चैव उद्याने चाऽऽश्रमेषु च ॥ ३६ ॥ चैत्यश्मशानजा ये चं न योज्या यकर्मणि ।। इत्यमशस्ता व्याख्याताः प्रशस्ताञ्शृणु मे नृप ॥ ३७ ।। भक्षनः स्वदिरः सालः कद्रो वा समाहितः । मधूकः सोमवल्को वा शा(ऽशो)को वा सर्ज एव च ॥ ३८ ।। अष्टानां वृक्षजातीनां ये लुमा युपपत्तिः ॥ अवल्मीके शुभे देशे सारवन्तः समाहिताः ॥ ३९ ॥ ज्ञाता न चामिना स्पृष्टा वठ्ठीभिः पिण्डिताश्च ये ।। अकोथ्रास्तु जाताश्च पोग्यास्ते यम्रकर्मणि ॥ ४० ॥