पृष्ठम्:हस्त्यायुर्वेदः.pdf/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिविरचिवो- [६ शल्यस्थाने. अतिदग्धे भवन्त्येतङ्गणे नागस्य पार्थिव ॥ शीर्णमांसाः मुगम्भीरा ब्रणा दुःखमरोहिणः ॥ ५८ ॥ अतिरिक्त भवन्त्यौ ब्रणे दोषश्च दारुणः । परिषेकैः अदेहैश्च शीतलैस्तमुपाचरेत् ॥ ५९ ॥ द्वित्रणीये यथा प्रोक्तं तथा व्रणमुपाचरेत् ॥ इति सम्यक्समाख्यातः शस्त्राप्तिप्रणिधौ विधिः ॥६०॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने तृतीये शल्यस्थाने शस्राग्रिप्रणिधिनम दशमोऽध्यायः ॥ १० ॥ अथैकादशोऽध्यायः । अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति । कृतजप्यमृषिश्रेष्ठं विनयेन कृताञ्जलिः ॥ १ ॥ शस्रामिमणिधाने यत्परिकर्मसु हस्तिनाम् ॥ सर्व भगवता प्रोक्तं दृढे स्तम्भे निबन्धनम् ॥ २ ॥ तत्कथं वारणेन्द्राणां कर्तव्यमृषिसत्तम । स्तम्भ एव निबद्धानामनल्पबलतेजसाम् ॥ ३ ॥ कथं न हस्तवालाभ्यां हिंस्युर्गात्रापरेण वा ॥ प्रतिकर्मक्रियाकाले बन्धेनैकेन संयताः ॥ ४ ॥ पथा येन निराबाधं निराबाधं च हस्तिनाम् । भवेत्तु विधिवत्सर्वं तथा मे वतुमर्हसि ॥ ५ ॥ तस्य तद्वचनं श्रुत्वा पालकाप्पस्ततोऽब्रवीत् ।। शृणु राजन्यथा कार्यः प्रतिकर्मक्रियाविधिः ।। ६ ।। आलाने चैव बद्धानां कार्यस्तु पृथिवीपते । शस्त्राग्रिक्षारसंयुक्तः प्रतिकर्मक्रियाविधिः ॥ ७ ॥ अयन्नितमबद्धं वा यो नागमुपसर्पति । प्रतिकर्मक्रियां कर्तु बालिशास्त्वरयाऽपि वा ।। ८ ।। जीविते संशयस्तस्य वैकल्यं वा धुवं भवेत् । न च सम्यक्क्रियां कर्तु स शङ्गोति नराधिप ।। ९ ।। स्राय्वस्थीनि सिर वाऽपि कर्म चाप्युपहन्त्यपि । तिर्यग्वा पातयेच्छस्त्रं वेपमानो शिक्षितः ॥ १० ॥