पृष्ठम्:हस्त्यायुर्वेदः.pdf/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिविरचितो- [६ झाज्यस्थाने संदूषयति तद्वायून्बहून्दोषानुदीरयेत् ।। अतिप्रवृत्तं श्र(ख)वति निर्दोषे शोणितेऽधिकम् ॥ २७ ॥ पूर्वोतैधूर्णयोगैस्तु स्थापनं प्रतिचूर्णनैः । स्थाने प्रधाने निर्देषे इीतले स्थापयेद्वजतम् ॥ २८ ॥ न चास्मै लवणं देयं नात्युष्णं नाम्लमेव च । भक्ष्यं भोज्यं तथा पेयं सर्वे च परिवर्जपेत् ॥ २९ ॥ यावद्रतं तु तिष्ठतु स्थिते स्यादपरो विधिः ॥ आहारस्य च सौहित्यात्स्पशच्छब्दाद्रसादपि ।। ३० ।। यस्मात्प्रसिच्यते रतं तस्मात्तेभ्यो निवर्तयेत् ।। भयात्क्रोधाश्च रुधिरं स्थितं यस्मात्प्रवर्तते ॥ २१ ॥ सस्मान्म कोपयेदेनं न चास्य भयमादिशेत् ।। परिषेकैः प्रदेहैश्च शीतलैः समुपाचरेत् ॥ ३२ ॥ नलवक्षुलमूलैश्च मृणालैः सबिसोत्पलैः । पकोशीरमञ्जिष्ठासारिवाचन्दनैरपि ॥ ३३ ॥ प्रदिछा बहुशश्चूर्ण शीतलेभ्यश्च वारणम् । आद्वैर्वत्रैः परिच्छाद्य चीजयेद्वजनैः शुभैः ॥ ३४ ।। क्रियाभिरेवं सूक्ष्माभिर्पदि रक्तं न तिष्ठति ॥ अग्रिकर्म ततः कुर्याद्यथायोगं समाहितः ॥ ३५ ॥ ततोऽग्रिकर्मणि कृते घृततैलवसादिभिः । मधूच्छिष्टसमायुतैरभ्यङ्गो रक्तनिग्रहः ॥ ३६ ॥ न तु सर्वस्य कर्तव्यमप्रकर्म विजानता ॥ रोगाभिभूते क्षीणे च हतमर्मणि च द्विपे ॥ ३७ ॥ अनिर्वापितशल्पे च तृष्णातें मूछितेऽपि च ।। बहुव्रणे च मातङ्गे संतझे ज्वरितेऽपि च ॥ ३८ ॥ अभिकर्म न कर्तव्यं नागानां हितमिच्छता । पडत्यया भवन्त्येते शत्रे मिथ्या प्रचारिते ॥ ३९ ॥ संक्षोभः पाण्डुता चैव शोणितस्यातिसेचनम् ॥ मवेपनं च स्तम्भं च जीवस्यापि व मोक्षणम् ॥ ४० ॥ इत्येते षट्समुद्दिष्टाः क्रमशो झत्यया नृप ॥ हीनं वाऽप्यतिरिक्तं वा चतुं वा कर्म कस्यचित् ॥ ४१ ॥ मर्मसंधिसिराछेदो गजं प्राणैर्विपोजयेत् ।। मूलं स्कन्धश्च शाखाश्च पथा दृक्षस्य पार्थिक् ॥ ४२ ॥