पृष्ठम्:हस्त्यायुर्वेदः.pdf/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० शस्त्राप्तिप्रणिधानाध्यायः ] हस्त्यायुर्वेदः । तनुप्रदेशे बहुलो बहुले च तनूद्रतः ॥ तिर्यगायतगम्भीरो विसपत्सङ्गवानपि ॥ १२ ॥ सर्वानेतान्विदित्वाऽथ प्रदेशा ये च मर्मजाः ॥ अविचक्षुरसंभ्रान्तः स्थानः सुस्थितो लघुः ॥ १३ ॥ स्रायुसंधिसिरामर्म रक्षञ्शास्रमथो नपेत् ॥ अङ्गुलं वा वसाधं वा शिरा भिन्ना न दुष्यति ॥ १४ ॥ अभिन्नश्चयथोरेतद्राजन्व्यञ्जनभिष्यते ॥ अशेषतो न विश्रा(स्रा)व्येत्तिर्यगूध्र्वमथापि वा ॥ १५ ॥ वहेच दोषः संस्थायी निरुत्सङ्गं ततश्च तम् ।। सुकरालं व्रणं छिन्द्यादनुलोमं समं गतौ ॥ १६ ॥ नामृक्पादप्रकारं च त्रिपादं छेदपेङ्गणम् ॥ पादप्रमाणं कुर्यात्तु व्रणस्य चतुरङ्गुलम् ॥ १७ ॥ कुर्याद्यथोद्भमं चापि मुभिषग्गुणदोषतः ॥ भैषज्योत्तरपूर्वाणि कारयेतु ऋजूनि च ॥ १८ ॥ आपते चतुरस्र वा वृत्तेऽथापि परिग्रहे । दोषनिर्हरणार्थाय सर्वान्कुर्यादधोमुखान् ॥ १९ ॥ पथौषधानि च वहेत्तं दोषं परिशोधयेत् ।। अंगतिर्यत्र चाङ्गुल्यास्तनुगम्भीरमर्मसु ॥ २० ॥ एषण्या श्वयथोर्यत्र तत्र शत्रं न पातयेत् ।। । पित्तदुष्टं तु यत्कालं हरितं पीतकं तथा ॥ २१ ॥ उष्णं चाश्रु श्र(स्र)वति यत्स्कन्दयत्यपि तेजसा । बहुलं पिच्छिलं पाण्डु चिराच्छू(त्स्र)वति स्कन्दति ॥ २२ ॥ श्लेष्मदोषान्वितं रक्तं विद्यादेतद्विचक्षणः ॥ तनुकं फेनिलं श्यावं रक्त वातान्वितं भवेत् ॥ २३ ॥ संनिपातान्वितं रक्तं सर्वदोषैः समन्वितम् ॥ पाटने लेखने वेध्ये प्रच्छन्ने वाऽपि सीवने ॥ २४ ॥ सदोषरुधिरं यावत्तावन्न प्रतिषेधयेत् ॥ इंद्रगोपकवर्ण यत्तद्वै प्रकृतिशोणितम् ।। २५ ॥ अदोषलङ्गं शुद्धं यद्वहेत्तत्प्रतिषेधयेत् ॥ दुष्टं यदा कायगतं न विश्रा(स्रा)व्येत शोणितम् ॥ २६ ॥