पृष्ठम्:हस्त्यायुर्वेदः.pdf/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८ पालकाप्यविरिचतो- [प शस्त्या आयासकाण्डे रम्भे च स्तनानुसार एव च । मेण्ढ़े चैवाण्डकोशे च नवतिः संधयः स्मृताः ॥ ४३ ॥ अंसे च प्रत्यगंशे च तथाऽसफलकेऽपि च ।। संधयस्तत्र विज्ञेया वारणस्य तु विंशतिः ॥ ४४ ॥ ग्रीवाबिन्दुचितानेषु पिण्डिकावग्रहे तथा ॥ आसने शयने स्थाने ि विद्यात्संधिशतानि षट् ॥ १४५ ॥ पुरस्कारावग्रहे च निर्याणे श्रवणे तथा ॥ ईषिकान्तरयोथैव वातकुम्भे च दन्तिनः ॥ ४६ ॥ द्वे च संधिशसे प्राहुः संधींश्चापि चतुर्दश ।। ख(क)टे च खलु नेत्रान्ते एकैके संघपः स्मृताः ॥ ४७ ॥ विषाणयोर्द्धयोश्चापि हस्ते द्वात्रिंशदीरिताः ॥ उरसि द्वादश ज्ञेया मुखे त्रिंशति(?)रेव च ॥ ४८ ॥ दशनासगदाये तु संधयस्तत्र षोडश ।। जिह्वायां तु त्रयः प्रोक्ताः कण्ठे ज्ञेयात्रयोदश ॥ ४९ ॥ आसने वंशदेशे च तत्पिले पश्चिमासने ।। तथा त्वपरवंशे च द्वात्रिंशत्संधयः स्मृताः ॥ १५० ॥ अस्थिभागे च जघन उत्कृष्टकलयोरपि ॥ भागेष्वेतेषु नागस्यै द्वात्रिंशत्संधयः स्मृताः ॥ ५१ ॥ (* लाङ्गलवंशे लाङ्गले द्वात्रिंशत्संधयः स्मृताः ।) करीषभागे प्रस्रावे गुदभागे च दन्तिनः ॥ ५२ ॥ संधयो विंशतिया भागेष्वेतेषु निश्चिताः ।। पलिहस्ते ततः कर्मप्रेोहसंदानयोरपि ॥ ५३ ॥ अपस्कारे व नागस्य क्रोशसंधिं विनिर्दिशेत् ॥ बाहोरथांसफलके पाद्याभागे तथैव च ॥ ५४ ॥ ग्रन्थिष्वपि तथाऽष्ठीव्ये ज्ञेया कटिकासु च ॥ उत्कृष्टेऽप्यथ मण्डूक्यां भागेष्वेतेषु दन्तिनः ॥ १५ ॥ समुद्रसंधिः सर्वेषु यथावदिति निश्चयः । लाङ्गलवंशे लाङ्गले जघनन्यस्थिदेशयोः ॥ ५६ ॥

  • धनुश्चिह्नद्वयान्तःस्थः पाठो नास्तं कपुस्तके ।।

१ क. "नुरस ए० । २ क. °स्य संधयः षोडश स्मृ” ।