पृष्ठम्:हस्त्यायुर्वेदः.pdf/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९१शरीरविचयाध्यायः] हस्त्यायुर्वेदः । अपानेन यदा वायुं वारणः प्रैविमुञ्चति ॥ पकाशयनिबद्धास्तु ज्ञेयास्तौस्तु चतुर्दश ॥ २९ ॥ एकादश शतान्येवं सप्ततिश्च पुनः सिराः ॥ (*वारणस्य प्रदेशेऽस्मिन्व्याख्यातास्ताः प्रदेशगाः ॥ १३० ॥ शतानि त्रीणि शेषाणि त्रिंशदन्याः पुन: शिराः ॥ ) एता रक्तवहा दृष्टाः शरीरं सर्वमेव हि ॥ ३१ ॥ सिराभिः संवृतं याभिर्वर्छीभिरिव पादपः ॥ अत्र प्रतिविशेषं तु हस्तिन्यामुपलक्षयेत् ॥ ३२ ॥ एकैकस्मिन्स्तने दृष्टाः सिराः क्षीरवहा दश ॥ हृदयंगमाः सुसूक्ष्माश्चेति प्रोक्तः सिराविधिः ॥ ३३ ॥ शतानि पञ्च (*नागस्य सहस्र च) विशेषतः ॥ रेतोत्सर्गकरा यास्तु वारणानां सिरा दश ॥ ३४ ॥ मैथुनार्थं च या दृष्टास्ता एव विंशतिः स्मृताः । नव संधिशतान्येवं वारणेष्ववधारयेत् ॥ १३५ ॥ अतः परं प्रवक्ष्यन्ते संधयो वारणस्य तु । द्वाविंशतिः संधयस्तु पादे पादे विनिश्चिताः ॥ ३६ ॥ प्रेोहसंधानभागे च पलिहस्ते च दन्तिनः ॥ एतेष्वङ्गमदेशेषु संधयश्च चतुर्दश ॥ ३७ ॥ एवं भागे त्वपस्कारे पादे विक्षोभयोरपि ॥ प्रतिमाने च विज्ञेयाः संधयस्तु चतुर्दश ॥ ३८ ॥ गुच्छे सगुटिकायां च स्युस्तथाऽन्तरसक्थनि ॥ संधयोऽत्र महाराज विज्ञेयास्तु चतुर्दश ॥ ३९ ॥ मण्डूक्यन्तरसंधौ तु अष्ठीव्ये तु विशेषतः । संधयस्तत्र विज्ञेया वारणस्य तु विंशतिः ॥ १४० ॥ आयासकाण्डे रन्धे च स्तनार्नुसार एव च ॥ मेण्ढ़े चैवाण्डकोशे च नवतिः संधयः स्मृताः ॥ ४१ ॥ अंसे च प्रत्यगंशे च तथाऽसफलकेऽपि च ॥ संधयस्तत्र विज्ञेया वारणस्य तु विंशतिः ॥ ४२ ॥

  • ‘धनुश्चिद्दद्वयान्तःस्थो नास्ति पाठः कपुस्तके ।

१ क. प्रतिमुञ्चति । २ क. “स्तासु च । ३ क. "नुरस ए ।