पृष्ठम्:हस्त्यायुर्वेदः.pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४१ द्विमासजातश्चपलो लिंण्डवापि(१)मसङ्गजः ॥ तृतीये च चतुर्थे च पानीयं मासि सेवते ॥.३४ ॥ ऊध्र्वं चतुर्णा मासानां तृणं मृदु च पछवम् ॥ शाछकीमरिमेदं च कर्णिकारं च खादति ॥ ३५ ॥ भुञ्जानस्य अवर्धन्ते दोषाः पापेण दन्तिनः ॥ वातपित्तकफाचैव तेषां कर्म पृथक् पृथक् ॥ ३६ ॥ रक्तमांसास्थिमज्जानो वर्धन्ते धातवो रसैः ।। मेदः शुक्रे बलं तेजो जवो वष्र्म च पार्थिव ।। ३७ ॥ रसेन पित्तं चाम्लेन मधुरेण कैफः सदा ॥ कषापकटुकाभ्यां तु वर्धते दन्तिनोऽनिलः ।। ३८ ।। कण्ठे क्षेष्मा विहरति भुञ्जतो विविधात्रसान् । पित्तेन पच्यते भुक्तं कफान्निद्राऽस्य जायते ॥ ३९ ॥ वातात्प्राणस्य चेष्टा च जीर्णस्य च निरुहन(ण)म् ।। समधातुस्त्वरोगः स्याद्विषमैव्यधितो भवेत् ॥ ४० ॥ जरायुरकं मांसं तु मातृजान्विद्धि हस्तिनः ॥ शुक्रे मज्जास्थिमेदांसि शिरारोमनखाः पितुः ॥ ४१ ॥ यथाविभक्तान्यस्थीनि संधयो ये च कीर्तिताः ॥ दन्ता नागस्य यावन्तो मर्माणि च निबोध मे ॥ ४२ ॥ शिरस्पस्थिद्वयं राजन्कपाले च तथाऽपरे ॥ अष्टावस्थीनि ग्रीवायां नव चैवात्र संधयः ॥ ४३ ॥ एकमेवास्थि सगदे द्वौ संधी सव्यदक्षिणौ ॥ द्वे च सृङ्कास्थिनी तेपे चत्वारश्चात्र संधयः ॥ ४४ ॥ अधस्तादुपरिष्टाश्च दन्ताः षोडश सागदाः ॥ महारिणौ च द्वौ दन्तौ करिणोऽष्टादश स्मृताः ॥ ४५ ॥ अष्टादशानां दन्तानां संधयोऽष्टादशैव च ॥ अधस्तावोपरिष्टाच विद्यान्नागस्य पार्थिव ॥ ४६ ॥ गेलनाड्यां चतुःषष्टिस्तरुणास्थीनि दन्तिनैः ॥ वलयाकृतिकल्पानि सप्तषष्टिश्च संधयः ॥ ४७ ॥ १ क. पिण्डद्वापि । २ क. कफस्तदा । ३ ख. शिरो रो०। ४ ख. संधयोः । १ क. गलानां च । ६ क. "नः । प्रल" ।