पृष्ठम्:हस्त्यायुर्वेदः.pdf/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९ शरीरविवयसध्यायः] इस्पायुर्वेदः । सोमजं शीतमात्रं च शुष्कमुष्णं च वैजसम् ॥ मपाणां स्थावराणां च संभवश्च चतुर्विधः ॥ १९ ॥ पुरुषो गौरजोऽश्धोऽध्यो गर्दभोऽश्वतरोऽपि च ॥ सतैते जङ्गमा ग्राम्या वन्यान्सप्त निबोध मे ॥ २० ॥ कपिर्गजो वराहश्च शार्दूलो महिषो मृगः ॥ खङ्गचेति समाख्याताः सप्त वन्याश्च जङ्गमाः ॥ २१ ॥ वृक्षो वनस्पतिर्गुल्मो लतौषधितृणानि च । प्रतानो वीरुधो गुच्छः स्थावरा नव कीर्तिताः ॥ २२ ॥ स्थावराणां च निर्देशो रसवीर्यविपाकतः ॥ कीर्तितो यवसाध्याये विस्तरेण महीपते ॥ २३ ॥ समागतो हस्तिनीं तु नागो मैथुनमाचरेत् ॥ योन्यां करेण्वाः संघर्षात्सौम्यं शुक्रे विमुञ्चति ॥ २४ ॥ निषिच्यमाने शुक्रे तु महात्मा प्रतिपद्यते । । जीवः सूक्ष्मपरो धातुरचिन्त्यः प्रभुरीश्वरः ॥ २५ ॥ संसृष्टं रजसा शुक्रे तिष्ठद्योन्यां विवर्धते ॥ सप्तरात्रोषितं तत्र कललं जायते सतः ॥ २६ ॥ दशाहादर्जुदं तत्र जायते राजसत्तम ॥ मासाञ्छ पेशी भवति हृदयं तदनन्तरम् ॥ २७ ॥ केंचित्संभवमिच्छन्ति पूर्वं संजायते शिरः ॥ पूर्वं हृदयमित्येके युगपत्वपरेऽबुवन् ॥ २८ ॥ हृदयं मनसः स्थानं मनश्चाऽऽहुः प्रजापतिः । तस्माद्रर्भण जातस्य हृदयं जायतेऽग्रतः ॥ २९ ॥ ततः संजायते छोम यकृदैवृकौ त्रयं तथा । ततः शिराः संभवन्ति तिर्यगूध्र्वमधस्तथा ॥ ३० ॥ ततः शिराभिः सहितं स्थूलान्नमुपजापते ॥ पृष्ठवंशोऽथ जघनं वक्षेो गात्रापरोदम् ॥ ३१ ॥ क्रमेण सर्वाण्यङ्गानि केशरोमनस्वानि च ॥ भवन्त्यत्र शिराभागे मातुर्गभदरे वसन् ॥ ३२ ॥ ततः स दशमै मासे द्वादशे वाऽपि जायते । एवं हि जायते हस्ती जातश्चापि पिबेत्पयः ॥ ३३ ॥ १ क. "रोऽधिकः ॥ स* । २ क. "दूवृद्धौ त्र ।