पृष्ठम्:हस्त्यायुर्वेदः.pdf/१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४०
[२ क्षुद्ररोगस्थाने
पालकाप्यमुनिविरचितो-

यथोक्तेनैव विधिना मर्दनं तस्य कारयेत् ।
कुलत्थानाढकीबीजं बदराणि यवांस्तिलान् ॥
पयसा पञ्चमूलं च स्थाल्यामाधाय पाचयेत् ।
ततोऽस्य कारयेत्स्वेदं नाऊँचैव सततं भिषक् ॥
स्विन्नस्य च पुनः कार्य मर्दनं पूर्वकीर्तितम् ।
न चेदनेन विधिना गात्रं गच्छति मार्दवम् ॥
ततोऽस्य विधिवत्कार्यः फालस्वेदो ह्यनन्तरः ।
समीपे तस्य नागस्य कर्म(म)रावेस(श)नं भवेत् ।
( * ततोऽस्य पातयेत्फालानमिवर्णान्भिषक्तथा ।
पटावनद्धगात्रस्य तथा त्रिग्धस्य दन्तिनः ।
तिलसर्षपचूर्णेश्च यवैश्वाऽऽलेपनं भवेत् ) ।
ततः संचारयेत्फालं यथायोगं विचक्षणः ।
स्विन्ने च विधिवत्कापं मर्दनं तस्य हस्तिनः ।
भवेन्न चेत्भकृतिमान्पुनस्तस्य समाचरेत् ॥
विधिव्यस्तस्य गात्राणां स्तनानां च निवर्तनम् ।
स(श)णवीर्या(जा)र्कयोलमतसीसर्षपानपि ॥
तिलानि बीजनिचये यवान्कृष्णा च मृत्तिका ।
सम्यक्क्षीरेण सिद्धेन सुस्वोष्णेनाथ सर्वशः ।
कल्केनैतेन नागस्य पिण्डस्वेदं प्रकल्पयेत् ।।
स्विन्नस्य च पुनः कार्यं मुहूर्तमवगाहनम् ।
सलिलेनैव नागानां पुनश्चोत्तार्य कारयेत् ॥
एष एव विधिः कार्यः पिण्डस्वेदे यथाक्रमम् ।
मर्दनं चास्य पूर्वोक्तं नाडीस्वेदं च कारयेत् ॥
अयमन्यो विधिः कार्यः स्तब्धगात्रेषु हस्तिनः ।
प्रमुझे येन गात्राणां सर्वतोऽप्युपशाम्यति ॥
देवदारु हरिद्रां च सह दारुहरिद्रया ।
कुठं रास्रां च कालां च सरलं च पुनर्नवा ।
एवं संभृत्य संभारं पिण्डस्वेदं प्रकल्पयेत् ।
पूर्वोतेन विधानेन मर्दनं च विचक्षणः ॥


  • धनुश्चिह्नान्तरगते नास्ति पाठः कपुस्तके ।

१ क. "मूलानि स्था० । २ क. *तो यः प्रशा० । ३ क. प्रकल्पयेत् ।