पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४. नेहविध्यध्यायः ] इस्त्यायुर्वेद 1 ५८१ इत्पङ्गायेदं शुभलघुपदयुक्तं दाना ( नं) स्नेहानां द्विरदद्दित्तं विधिनः || कृत्स्नं प्रोवाच क्रमगुणविधियुक्तं विप्रो नागानां प्रथितविपुलबुद्धिः || ३२२ ॥ इति ॥ इति श्रीपालकाध्ये गजायुर्वेदशास्त्रे महाबचने श्रीपाठे चतुर्थ उत्तरस्थानेऽनपान विधिकथनं नाम तृतीयोऽध्यायः ॥ ३ ॥ अथ चतुर्थोऽध्यायः । अथ खलु भगवन्तं पालकाप्यं रोमपादोऽङ्गाधिपतिरधिकतर मपृच्छत् । 'भग- वन्, कति स्नेहविशेषाः, कति स्नेहपाक विशेषाः, कति स्नेहद्वाराणि, कति स्नेह- संयोगाः, केषां च व्याधीनामुपशमनकः स्नेह उपदिश्यते, किमुत्तममध्यमा- धमानां नागानां स्नेहप्रमाणम्, केषां च स्नेहपानं प्रदेयम्, तदशेषेणाभिधत्तां. भगवान्' इति || अथ भगवानुवाच पालकाप्पोऽङ्गरोमपादाय - 'शृणु भद्रमुख स्नेहान्, स्नेह- विशेषांश्च । तद्यथा-नवनीतं घृतं मस्तिष्कं मज्जा तैलं फलतैलं मेदो वसा शुक्रमित्येते नव स्नेह विशेषाः । तत्र शुक्रमस्तिष्कत्र्यपेतान्गार्ग्यः प्रोवाच । प्रयागतः स्नेहान्सप्ताप्रिवेशः । चतुरः स्नेहांस्तेषां प्राह गौतमः सॉपस्तैलं वसा मज्जा चेति | भरद्वाजस्तु स्थावरजङ्गमौ द्वौ विशेष माह | स्थावर बीरुद्वनस्पतिवानस्पत्यजः । तत्र तैलं प्रधानम् | जङ्गमस्तु पयोदधिनवनीतघृ तानि | तेषु घृतं प्रधानम् । पानविरेचनानुवासनोत्तरवस्तिक कटबस्त्यभ्यङ्ग गात्र से कनस्यकमाणि च । एतेषु प्रयोज्याः स्नेहाः । तत्र प्रवरमध्यमाधमवारणानां स्नेहपानं प्रदेयम् । तत्र कान्तपिपासितपाकल/भिभूतातियातबलक्षीणमदक्षीण- कुशविभिभामाशप विकाराणां च बालवृद्धधेनुकानामक्कत मुखद्वासणा मकामाना- मनपानेष्वप्रज्ञप्तानां च स्नेहपानमादेयं भवति | देया च तेषां विधा स्नेहसंयुक्ता यथाद्रोणप्रमाणविहिता | तयाऽस्य धातुवृद्धि छविप्रसाद: सौमनस्वं यवसा- भिनन्दनत्वं खोपजायते || तत्र मात्राप्रमाणं यथाविचारं स्नेहगतमनुव्याख्यास्यामः || द्रोणेऽघडकीनं प्रमाणं कृत्वोत्तमस्पारलिप्रमाणस्य विचारः | स्नेहोपयोगेन