पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इस्त्यायुर्वेदः सद्यस्स्यजति तं दोषं त्यक्त्वा च सुखमिच्छति ॥ तस्माद्विश्रा (स्ला) वर्ण कार्य विधिनोऽनेन हस्तिनाम् ॥ ७७ ॥ यथाविकारं कुर्वीत भोजयेत्तत्तथा द्विपम् ॥ सप्ताहं पञ्चरात्रं वा शिरात्रमपि वा पुनः ॥ ७८ ।। स्निग्धस्वेदोपपत्रस्य समीक्ष्य गुरुलाघवम् || विमृश्य पूर्व श्वयथुं दोषलिङ्गसमन्वितम् || ७९ || बन्धैर्यथोक्तैः कर्तव्यं यथावदवपीडनम् || ११ शिरायूहन्याध्यायः ] १८७ तस्य तस्य प्रदेशस्य चेष्टानां संनिवारणम् ॥ ८० ॥ - यत्रं विधिनं कुर्वीत बन्धेनानेन संपतम् || मोह संदानभागेषु तथाऽपस्कारयोरपि(?) ॥ ८१ ॥ अष्टी०पयोस्तु भागानां पूर्वसंस्थानमिष्यते || लक्षणं समाहितं चैव नाभितः षोडशाङ्गलम् ॥ ८२ || तथा वृश्चिकसंस्थानं शिरस्य (स्प) विधीयते ॥ वंशे चोत्तरप्रदे (रदे) शे च समं कर्कटकान्वितम् ॥ ८३ ॥ मन्याभागांसदेशेषु कूर्मसंस्थान मिष्यते ॥ एवं पत्रविधिः प्रोक्तो विस्तरेण महीपते ॥ ८४ ॥ एवं बन्धनबद्धस्य विश्रा (स्त्रा) वणमतः परम् || अनेन क्रमयोगेन (ण) स्थानादुन्नापते(?) शिराः ॥ ८५ ॥ तासां परीक्षा कर्तव्या वैद्यैः सम्यकप्रपीडने || पाणिना पौदपोस्तत्र अङ्गुष्ठेन प्रपीडपेत् ॥ ८६ ॥ विज्ञाय नागं भागज्ञो विध्येचु ताः समाहिताः || तत्राऽऽविद्धाः शिराः सम्यक्पार्श्वदेशेऽथवा भवेत् ॥ ८७ ॥ न प्रवर्तते सा सम्पक्तस्पा दोषो न शाम्यति ॥ स्तम्भः शोफश्च दाइश्व क्षिप्रमेवोपजायते ॥ ८८ ॥ तस्माद्यथोकं कर्तव्यं पुनस्तस्य चिकित्सितम् || अतिविद्धा सु या कष्टदोषमत्यर्थ मीरयेत् ॥ ८९ ॥ तस्माद्य ऋविधिस्तत्र क्षिप्रमेव व मोक्षयेत् || मुक्तबन्धनमो श्वेवं सलिले त्ववगाहयेत् ॥ ९० ॥ १ क. नागेन । २ क. संयुतम् | ३ क. ते ॥ ते वंशे चेत्प्रदे॰ । ४ क. पार्श्वयो । ५ क. माम्येवं ।