पृष्ठम्:हर्षचरितम् (लघुसङ्ग्रहः).pdf/२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२४
हर्षचरिते

स्थिते च राजनि, इतस्ततो वितस्तार तारतरस्तूर्याणां प्रतिध्वनिराशातटेषु । करिणां च षट्पदकोलाहलमांसलैः कर्णतालनिस्वनैस्तिरोदधिरे दुन्दुभिध्वनयः । सर्वतो विक्षिप्तचक्षुश्च भूपालः, अद्राक्षीत् आवासस्थानसकाशात्प्रतिष्ठमानं स्कन्धावारम् । वीक्षमाणश्च कटकं जगाम । प्रविश्य च बाह्यास्थानमण्डपस्थापितमासनमाचक्राम । अपास्तसमायोगश्च क्षणमासिष्ट ॥

 अथ तत्र प्रतीहारो विज्ञापितवान्--"देव, प्राग्ज्योतिषेश्वरेण कुमारेण प्रहितो हंसवेगनामा दूतस्तोरणमध्यास्ते" इति । राजा तु "तमाशु प्रवेशय” इति सादरमादिदेश ॥

 अनन्तरं च हंसवेगः सविनयं प्रभूतप्राभृतभृतां पुरुषाणां समूहेन महतानुगम्यमानः प्रविवेश राजमन्दिरम् । आरादेव पञ्चाङ्गालिङ्गिताङ्गनः प्रणाममकरोत् । ततो राजा पप्रच्छ--"हंसवेग, श्रीमान् कश्चित्कुशली कुमारः" इति । स तमवादीत्--"अद्य कुशली, येनैवं स्नेहस्नपितया गिरा सगौरवं पृच्छति देवः" इति ॥

 स्थित्वा च मुहूर्तमिव पुनः स चतुरमुवाच--"अस्मत्स्वामिना संदेशम् अशून्यतां नयता पूर्वजोपार्जितं वारुणातपत्रम् आभोगाख्यम् अनुरूपस्थानन्यासेन कृतार्थीकृतम् । एतत् , प्रचेता इव यश्चतुर्णामर्णवानामधिपतिर्भूतो भावी वा, तमनुगृह्णाति छायया, नेतरम् । एतत्तावदनुगृह्णातु दृशा देवः । संदेशमपि विस्रब्धं श्रोष्यति" इत्येवमभिधाय, विवृत्य आत्मीयं पुरुषमभ्यधात्--“उत्तिष्ठ । दर्शय देवस्य” इति ॥

 स वचनानन्तरमुत्थाय पुमान् ऊर्ध्वीचकार तत् । धौतदुकूलकल्पिताच्च निचोलकादकोषीत् । चित्रीयमाणचेताश्च सराजको