पृष्ठम्:स्फुटचन्द्राप्तिः.djvu/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

30 ततोऽधिकं तु तत्रांशा ‘गो'गुणा, ‘वि'गुणाः कलाः । ‘सुगुणा विकलास्तासु तद्गौरां'शं विशोधयेत् ।। १०॥ [ परितालिका ] साधयित्वा धुवांश्चैव ध्रुवकालांस्तथानयेत् । प्राद्यमल्पतमं कृत्वा यथाऽधिकतमोऽन्तिमः ॥११॥ त: साघ तत्र तत्र स्युः सह तद्वाक्यसख्यया । तद्धुवा स्वार्कमध्याय स्वसाधकफलान्विताः ॥१२॥ 'अत्राप्यौत्पत्तिकोऽस्त्येव वेण्वारोह इव क्रमः । द्युनिशोरविशेषेण द्वयोस्तत्पाश्र्वयोरिव ॥१३॥ उपर्युपरि पूर्वस्माद् ध्रुवाः स्युः क्रमशः स्थिताः । वाक्यसंख्यास्तथाधोऽधो, व्यत्यये व्यत्ययाद् द्वयम् ॥१४॥ 1. Verses 13-14 occur among the extra verses after the close of the work . They are editorially inserted here in consonance with their sense and similar ७ccurrence in this context in the Yervarolha, the revised version of the present work.