पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/८०

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


             

६५
दुःख धिगर्थाः कष्टसश्रयाः ॥१७॥ वरमसिधारा तरुतलवासो
वरमिह भिक्षा वरमुपवासः | वरमपि घोरे नरके पतन न
च धनगर्वितबान्धवशरणम् ॥ १८ ॥ तानीन्द्रियाण्य-
विर्कलानि मनस्तदेव सा बुद्धिरप्रतिहता वचन तदेव ।
और्थोष्मणा विरहितः पुरुषः स एव ह्यन्यः क्षणेन भवतीति
विचित्रमेतृत् ॥ १९ ॥ अापद्गत हससि कि द्रविणान्ध
मूढ लक्ष्मीः स्थिरा न भवतीति किमत्र चित्रम् । एतान्प्रप-
श्यसि घटाञ्जलयन्त्रचक्रे रित्ता भवन्ति भरिता भरिताश्च
रित्ताः ॥ २० ॥ धनमपि परदत्त दुःखमैौचित्यभाजा
भवति हृदि तदेवानन्दकारीतरेषाम् । मलयजरसबिन्दुर्बीँ-
धते नेत्रमन्तर्जनयति च स एवाह्मादमन्यत्र गात्रे ॥ २१ ॥
लमेर्येदयुतं धन तदधन धन यद्यपि लभेत निर्युत धन
निधनमेव तज्जायते । तथा धैनपरार्धकं तदपि भाव-
हीनात्मक यैदक्षरपदद्वयान्तरगत धन तद्धनम् ॥ २२ ॥
दृायादाः स्पृहयन्ति, तस्करगण सैष्णन्ति भूमीमुजो दूरेण
चैर्छलमाकलय्य हुंर्तभुग्भस्मीकरोति क्षणात् । अम्भः
लावयते क्षितौ विनिहित यक्षा हरन्ति ध्रुवं र्दुर्वृत्तास्तनया
नयन्ति निधैर्न धिग्धिग्धनं तद्वहु ॥ २३'॥
धनिप्रर्शसा
धनवान्बलवाँलोके सर्वः सर्वत्र सर्वदा । प्रमुत्वं धनमूल
हि राज्ञामप्युपजायते |॥ १ ॥ वयोवृद्धास्तपोवृद्धा ज्ञान-
वृद्धाश्च ये परे । ते सर्वे धनवृद्धस्य द्वारे तिष्ठन्ति किंकराः
ll २ |॥ न सा विद्या न तच्छीलं न तद्दान न सा कला |
अर्थार्थेिभिनै तच्छौर्ये धनिनां यन्न कीत्यैते ॥ ३ ॥ पतन्ति
खङ्गधारासु विशन्ति मैर्केरालयम् । किं न कुर्वन्ति सुभगे
कष्टमर्थाीर्थेनो जनाः ॥ ४ ॥ एहि गच्छ पतोत्तिष्ठ वद्
मौनं समाचर । एवमाशाग्रहग्रस्तैः क्रीडन्ति धनिनो-
ऽर्थिभिः ॥ ५ ॥ यस्यार्थास्तस्ख मित्राणि यस्यार्थास्तस्य
बान्धवाः । यस्यार्थाः स पुर्मेील्लोके यस्यार्थाः स च पण्डितः
॥ ६ ॥ को नाम नानुवृक्ति सुमहानपि धनवतः कुरुते |
वित्तशभवनभित्तेः समीपमुपसेवते शभुः ॥ ७ ॥ हेतुप्रमाण-
१ वैकल्यरहितानि २ अखण्डिता ३ द्रब्यरूपोष्णतया
४ विपद्वस्तम् ५ दशसहस्रम्, पक्षे,-अम्फ्रारेण युत धनम्, अधन-
मिल्यर्भ ६ लक्षसंख्याकम्, पक्षे,-निशब्देन युत धनम्, निधन-
मिलयथैः ७ धनस्य परार्ध सख्याविशेषः; पक्षे,•-धनशब्दसबन्धि
परमधै *न' इति तश्च भावहीनात्मकम् अभावबोधकमिल्यर्थ
८ अक्षर* परमात्मा तच्चरणद्वयान्तरे गत प्राप्त यद्धन मोक्षरूप
धन तदेव धनम्, पक्षे,-अक्षरयो पकारदकारात्मकयोर्मध्ववर्ति
धन इत्येतदक्षरद्वयररूपम्, धनमिल्यथै* ९ हरन्ति १० कपटम्.
११ अग्नि १२ दुष्टाचरणा १३ नाशम् १४ समुद्रम्
९ सु. र. भा.
युक्त वाक्य न श्रूयते दरिद्रख । , अर्प्यतिपरुषमसत्य
पूज्य वाक्यं समृद्धस्य ॥ ८ ॥ वैभवभाजा दूषण-
मपि भूषणपक्ष एव निक्षिसम् । गुणमात्मनामधर्म द्वेषं
च गृणन्ति कैाणादाः ॥ ९ ॥ वाणी दरिद्रस्य शैभा
हितापि ह्यर्थेन शब्देन च सप्रयुक्ता । न शोभते वित्तवतः
समीपे भेरीनिर्नेदिोपहतेव वीणा ॥ १० ॥ यादृशि तादृशि
वित्तसनाथे पश्च पिशाचशतानि वसन्ति । यानि पुनर्नि-
वसन्ति महीशे तानि न केनचिदाकलितानि |॥ ११ |॥
न विद्यया नैव कुलेन गौरवं जनानुरागो धनिकेषु सर्वदा |
कैपालिना मैौलिधृतापि जाह्नवी प्रयाति रत्ताकरमेव सत्वरम्
॥ १२ ॥ गङ्गा च धारयति मूर्ध्नि सदा कपाली सा तख
चुम्बति मुख न कदाचिदेव । रत्त्राकर प्रति चुचुम्ब
सहस्रवक्रैर्गङ्गा यतो युवतय सधनानुकूलाः ॥ १३ ॥
धिगस्त्वेतां विद्या धिगपि कविता धिक् सुजनता वयो रूप
धिग्धिग्धिगपि च यशो निधैनवतः । असौ जीयादेकः
सकलगुणहीनोऽपि धनवान्बहिर्यस्य द्वारे तृणलवनिभाः
सन्ति गुणिनः ॥ १४ ॥ परिक्षीण. कश्चित्स्पृहयति यवांना
प्रसृतये स पश्चात्संपूर्ण. कलयति धरित्रीं तृणसमाम् ।
अतश्चानैकान्त्याङ्गुरुलघुतयार्थेषु धनिनामवस्था घसंतूनि
प्रथयति च सकोचयति च ॥ १५ ॥
दरिद्रनिन्दा
उत्थाय हृदि लीयन्ते दरिद्राणा मनोरथाः । बाल-
वैधव्यदग्धाना कुलस्त्रीणा कुचा इव ॥ १ ॥ हे दारिद्य
नमस्तुभ्यं सिद्धोऽहं त्वत्प्रसादतः । पश्याम्यहं जगत्सर्व न
मा पश्यति कश्चन |॥ २ |॥ इह लोकेञ्ऽपि धनिन्ना परोऽपि
खजनायते । खजनोऽपि दरिद्राणा तत्क्षणाद्दुर्जनायते
॥ ३ ॥ परीक्ष्य सत्कुलं विद्या शीलं शौर्य सुस्रूपताम् ।
विधिदैदाति निपुणः कन्र्यैीमिव दरिद्रताम् ॥ ४ ॥ येनैर्वैी-
म्बरखण्डेन सवीतो निशि चन्द्रमा. '। तेनैव च दिवा
भानुरहो दौर्गत्यमेतयोः ॥ ५ ॥ चाण्डालश्च दरिद्रश्च
द्वावेतौ सदृशाविह । चाण्डालख न गृह्णन्ति दरिद्रो न
प्रयच्छति ॥ ६ ॥ अर्थेन तु विहीनस्य'पुरुषस्याल्पमेधसः ।
क्रियाः सर्वा विनश्यन्ति ग्रीष्मे कुसरितो यथा ॥ ७ ॥
द्वाविमावम्भसि क्षेप्यौ गाढं बङ्का गले शिलाम् । धनिनं
चाप्रदातार दरिद्रं चातपखिनम् ॥ ८ ॥ अत्यन्तविर्मुखे
दैवे व्यर्थे यढेत्रे च पौरुषे । मनस्खिनो दरिद्रस्य वनादन्यत्कुतः
१ अतिकठोरम् २ वैशेषिकशाख्स्रप्रवर्तका ३ कल्याणी.
४ दुन्दुभिध्वनिलुप्तेव, ५ शकरेण ६ मस्तक ७ वधूपक्षे,'-
'कुलमा दौ परीक्षेत? इति विधि , अन्यत्र,-प्रायो हि पण्डिता अकिञ्चना
इति दृष्टचरम् < अाकाशम्, पक्षे,-वख्स्रम् ९ पराच्द्भखे