पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/५९

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


             

४ ४
सुभाषितरत्नभाण्डागारम्
[ १ प्रकरणम्
ज्वरपावकेन च तनौ तैान्ते हैषीकत्रजे । र्दुने बन्धुजने
कृतप्रलपने धैर्य विधातु पुनः क, शत्तः कलितामयप्रशमनो
वैद्यात्परो विद्यते ॥ ५ ॥ भ्रान्ता वेदान्तिन. कि पठथ
शठतयाद्यापि चाद्वैतविद्या पृथ्वीतत्त्वे लुठन्तो विमृशथ
सतत कर्कशास्तार्किकाः किम् । वेदैर्नानागमैः कि ग्लपयथ
हृदयं श्रोत्रियाः श्रोत्रैश्शूलैर्वैद्य सर्वानवद्यं विचिनुत शरण
प्राणसग्रीणनाय ॥ ६ |॥
कुवैद्यनिन्दा
वैद्यराज नमस्तुभ्य यमराजसहोदर । यमस्तु हरति
प्राणान्वैद्यः प्राणान्धनानि च ॥ १ ॥ वैद्यराज नमस्तुभ्य
क्षपिताशेषमानव । त्वयि विन्यस्तभारोऽय कृतान्तः सुखमे-
धते ॥ २ ॥ चिता प्रज्वलिता दृष्वा वैद्यो विस्मयमागतः ।
नाहं गतो न मे भ्राता कस्येद हस्तलाघवम् ॥| ३ ॥| क-
षायैरुपवासैश्च कृतार्मुल्लाघता नृणाम् । निजौषधकृता वैद्यो
निवेद्य हरते धनम् ॥ ४ ॥ अज्ञातशास्रसैद्भावाञ्शस्त्रमात्र- !
परायणान् । त्यजेद्दराद्भिषक्पाशान्पाशान्वैर्वैस्खतानिव ॥ ५ ॥
मिथ्यौषधैईन्त मृषाकषायैरसह्यलेह्मैरयथार्थतैलैः । वैद्या इमे
वञ्चिर्तरुग्णवर्गाः पिर्वैणैडभाण्ड परिपूरयन्ति ॥ ६ ॥ नटो-
ऽपि दद्याद्भणकोऽपि दद्यात्सप्रार्थितः पाशुपतोऽपि दद्यात् ।
वैद्यः कथ दास्यति याचमानो यो मर्तुकामादपि हर्तुकामः
॥ ७ ॥ न धैाँतोर्विज्ञानं न च परिचयो वैद्यकनये न
रोगाणा तत्त्वावगतिरपि नो वस्तुगुणघी. । तथाप्येते वैद्या
इति तैर्रलयन्तो जडजर्नैॉनैसूत्र्मृरँयोधैत्या इव वैसुं हरन्ते
गैर्दैजुषाम् ॥ ८ ॥ सत्कोण लोलनेत्रं कुलयुवतिमुख
दृश्यते सानुकमै रण्डानामर्धलजाञ्चितमधिपुलक स्पृश्यते
पीनमङ्गम् । क्लीबाना खाद्यतेऽन्तश्चिरनिहितधन काष्ठमूला-
भितोयै. पूर्वा सिद्धा कलाना सकलगुणनिधिर्वैद्यविद्या-
भिवन्द्या |॥ ९ |॥ •
गणकप्रशंसा
चतुरङ्गबलो राजा जगतीं वशमानयेत् । अहं पञ्चाङ्ग-
बलवानाकाश वशमानये |I!| १ ll एकासनस्था जलवायुभक्षा
र्मुर्मुक्षवस्यैत्तपरिग्रहाश्च । पृच्छन्ति तेऽय॑म्बरचारिचार
१ म्लाने २ इन्द्रियसमूहे ३ दु खिते ४ वेदाध्यायेिन ५ कणै
कटुभि ६ सर्वेषा मध्ये निदाँषम् ७ नीरोगताम् ८ वास्त
वानर्थान् ९ कुत्सिता भिषजो भिषक्पाशास्तान् १० यम
संबन्धिन ११ रोगिसमूह १२ उदरभाण्डम् १३ पारदादे
१४ भ्रामयन्त १-५प्राणान् १६ यमस्य १७ द्रव्यम् १८ रोगिणाम्
१९ मोक्षेच्छव २० ल्यत्त परिग्रह कलत्र यैस्ते २१ अाकाश
सचारिग्रहगतिम्
दैवज्ञमन्ये किमुतार्थचित्ताः ॥ २ ॥ न दैवं न पित्र्य च
कर्मावसिद्धवेन्न यत्रास्ति देशे ननु ज्योतिषज्ञः । न तारा
न चारा नवाना ग्रहाणा न तिथ्यादयो वा यतस्तत्र बुद्धाः
॥ ३ ॥ दूतो न सञ्चरति खे न चलेच्च वार्ता पूर्व न
जल्पितमिदं न च सगमोऽस्ति । व्योम्नि स्थित रविशशिग्रहण
प्रशस्त जानातिं यो द्विजवर, स कथ न विद्वान् ॥ ४ ॥
ईद्धिह्रासौ कुंमुदसुहृदः पुर्षैपैवन्तोर्पराग, शुक्रादीनामुदय-
द्विलयूावित्यमी सर्वदृष्टा , । अाविष्कुर्वन्त्यखिलवचनेष्वत्र
कुंम्भीपुलाकन्यायाज्ज्योतिर्नयगतिविदा ' नि॒िश्चलं मानभावमू
॥ ५ ॥ भानोः शीतकरस्य वापि भुजगग्रैीासे पुरो निश्चिते
तीर्थानामटनं जनस्य घटते तापत्रयोच्चाटनम् । इष्टे प्रागव-
धारिते सतेि धृतेस्तुष्टेश्च लाभो भवेद्दृष्टे तु व्र्यैसनेऽत्र तत्र्प-
रिहृति. कर्तुं जपाद्यै, क्षमा ॥ ६ ॥
{ कुगणकनिन्दा
गणयति गगने गणकश्चन्द्रेण समागम विशाखायाः |
विविधभुजगक्रीडासत्ता गृहिर्णीं न जानाति ॥ १ ॥
! गणिकागणकौ समानधमैौं निजपञ्चाङ्गनिदशैकावुभैौ । जन-
मानसमोहकारिणौ तैौ विधिना वित्तहरौ विनिर्मितौ ॥ २ ॥
असुखमथ सुख वा कर्मणा पैत्तिवेलाखहह नियतमेते
भुञ्चते देहभाजः । तदिह पुरत एव प्राह मौहूर्तिकश्चेत्कथय
फलममीषामन्ततः कि तत* स्यात् ॥ ३ ॥ न्निलिखति
सदसद्वा जन्मपत्र जनाना फलति यदि तदानी दर्शयलैर्यैौ-
त्मदाक्ष्यम् । न फुलति यदि लग्नद्रष्टुरेवाह मोहं हरति
| धनमिहैवं हन्त दैवँज्ञैपाश. ॥ ४ ॥ मोदे खेदे वाप्युप-
नमति पुसा विधिवशान्मयैवं प्रागेवाभिहितमिति मिथ्या
कथयति । जनानिष्टानिष्टाकलनपरिहरैकनिरतानसौ मेषा-
दीना परिगणनयैव श्रैमैयति ॥ ५ ॥ ज्योति.शास्रमहोदधौ
बहुतरोत्सँर्गपवादात्मभिः कल्लोलैर्निबिडे कणान्कतिपर्ये-
! लब्ध्वा कृतार्थ इव । दीर्घीयुःसुतसपदादिकथनैर्दैवँर्ज्ञेपाशा
| इमे गेह गेहमनुप्रविश्य धनिना मोह मुहुः कुर्वते ॥ ६ ॥
पौराणिकनिन्दा
पैौराणिकान॒ा व्यभिचारदोषो नाशङ्कनीयः कृतिभिः क-
दाचित् । पुरार्णैकैर्ता व्यभिचारजातस्तस्यापि पुत्रो व्यभिचा-
रजातः |॥ १ |॥
१ क्षयवृद्धी २ चन्द्रस्य ३ सूर्याचन्द्रमसो ४ ग्रहणम् ५ स्थाली-
पुलाकन्यायेन ६ ग्रहणे ७ दु खे ८ परिहार ९ परिपाफकालेषु
१० स्वचातुर्यम् ११ कुदैवश १२ हर्षे १३ भ्रम करोातं १४ सामा-
न्यनियम , अपवाद प्रसिद्व १५ कुज्यौतिषिका १६ व्यास