पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

२२
सुभाषितरत्नभाण्डागारम्
[ १ प्रक्रणम्
मर्दितरावणकसौ सरयूयमुनाविहारिणौ देबौ । अर्पितविग्र-
कुमारौ हरि॒षुंति॒हर्केितुनभि॒यै वन्दे॒ ॥ ९७॥ युः पूतैना-|
मारणलब्धकीर्ति. कैकोदरो येन विनीतदर्प, । र्येशोद्या-
लंकृतमूर्तिरव्यात्पतिर्यदूनामथवा रघूणाम् ॥ ९८ ॥
कृष्णः
इन्दीवरदलश्याममिन्दिरानन्दकन्दलम् । वन्दारुजन-
मन्दार वन्देऽहं यदुनन्दनम् ॥ ९९ ॥ देवः पायादपायान्न,
स्मरेन्दीवरलोचनः । ससारध्वान्तविध्वसहंसकसनिषूदनः
॥ १०० ॥ पान्तु वो जलदश्यामाः शार्ङ्गज्याघातकर्कशा. ।
त्रैलोक्यमण्डपस्तम्माश्चत्वारो हरिबाहवः ॥ १०१ ॥ दर्पणा-
र्पितमालोक्य मायास्त्रीरूपमात्मनः । अात्मन्येवानुरत्तो वः
शिव दिशतु केशवः ॥ १०२ ॥ हृदय कौस्तुभोद्भासि
हरेः पुष्णातु व. श्रियम् । राधाप्रवेशरोधाय दत्तमुद्रमिव
श्रिया ॥ १०३ ॥ देहि मत्कन्दुक राधे परिधाननिगूहितम् |
इति विस्रसयन्नीवी तस्याः कृष्णो मुदेऽस्तु नः ॥ १०४ ॥
चण्डचाणूरदोर्दण्डमण्डलीखण्डमण्डितम् । अव्याद्वो बाल-
वेषस्य विष्णोर्गोपतनोर्वपुः ॥ १०५ ॥ मीमासार्णवसोम
लसदर्क तर्कपद्मस्य । वेदान्तविपिनसिह वन्दे गोविन्द-
साभिध ब्रह्म ॥ १०६ ॥ अवलोकितमनुमोदितमालिङ्गित-
मङ्गनाभिरनुरागैः । अधिवृन्दावनकुञ्जं मरकतपुञ्ज नमखामः
॥ १०७ ॥ मकरीविरचनभङ्गया राधाकुचकलशपीडनव्य-
सनी । ऋजुमपि रेखा लुम्पन्बल्लववेपो हरिजैयति ॥ १०८ ॥
कठिनतरदामवेष्टनलेखासदेहदायिनो यस्य | राजन्ति वलि-
विभङ्गाः स पातु दामोदरो भवत. ॥ १०९ ॥ खिन्नोऽसि
मुश्च शैलं बिंर्घृमो वयमिति वदत्सु शिथिलभुजः । भरभुग्न-
विनतबाहुषु गोपेषु हसन्हरिजैयति ॥ ११० ॥ नीत नवनीत
कियदिति पृष्टो यशोदया कृष्ण, । इयदिति गुरुजनससदि
करधृतराधापयोधरः पातु ॥ १११ ॥ राधामधुसूदनयोरनु-
दिनमुपचीयमानस्य. । प्रणयतरोरिव कुसुम मिथोऽवलोक-
स्मित पायात् ॥ ११२ ॥ श्रुतिमपरे स्मृतिमपरे भारतमपरे
भजन्तु भवभीताः । अहमिह नन्द वन्दे यस्यालिन्दे पर
ब्रह्म ॥ ११३ ॥ तप्त कैर्न तपोभि, फलित तद्गोपबाला-
नाम् ।लोचनयुगले यासामञ्जनमासीन्निरञ्जन ब्रह्म ॥| ११४ ॥
मदमयमदमयदुरगं यमुनामवतीर्य वीर्यशाली यः । मम
रतिममरतिरस्कृतिशमनपरः स क्रियात्कृष्णः ॥ ११५ ॥
स्तनधयन्तं जननीमुखाब्ज विलोक्य मन्दस्मितमुज्ज्वला-
१ अर्जुन · २ पूतनाया मारणेन लब्धा कीर्तिर्येन, पक्षे,-
वित्रनामा, रणे लब्ध्' कीर्तिश्च येन. ३ कालिय सर्प , पक्षे,- ||
धृष्ट काक ,४ य॒ञ्शोदया मात्रालकृतो देहो यस्य, पक्षे,-यशा |
दयया चालकृतो देहो यम्य. ५ धारयाम I
ङ्गम् । स्पृशन्तमन्य स्तनमङ्गुलीभिर्वन्दे यशोदाङ्कगत
मुकुन्दम् ॥ ११६ ॥ भुजप्रभादण्ड इवोध्र्वगामी स पातु
ब. कसरिपो• कृपाणः । य• पाञ्चजन्यप्रतिबिम्बभङ्गया धारा-
म्भसः फेनमिव व्यनक्ति ॥ ११७ |॥ विहाय पीय्यूषरस
मुनीश्वरा ममाद्विराजीवरस पिबन्ति किम् । इति खपादा-
म्बुजपानकैोतुको स गोपवालः श्रियमातनोतु वः ॥ ११८ ॥
विलिख्य सत्याकुचकुम्भसीग्नि पत्रावलिन्यासमिषेण राधाम् ।
लीलारविन्देन तया सरो॒ष पायद्विटः कोऽप्यभिहन्यूमान.
॥ ११९ ॥ स पातु वो यस्य हतावशेषास्तत्तुल्यवणंॉञ्जन-
रञ्जितेषु । लावण्ययुक्तेष्वपि वित्रसन्ति दैत्याः स्वकान्ता-
नयनोत्पलेषु ॥ १२० ॥ कुञ्चिताधरपुटेन पूरयन्वशिकां
प्रचलदङ्गुलिक्रम, मोहयन्निखिलवामलोचनाः पातु कोऽपि
नवनीरदच्छविः ॥ १२१ ॥ अतसीकुसुमोपमेयकान्तिर्यमुना-
तीरकदम्बमध्यवतीं । नवगोपवधूविनोदशाली वनमाली
वितनोतु मङ्गल व. ॥ १२२ ॥ गायन्तीना गोपसीमन्ति-
नीना स्फीताकाङ्घामक्षिरोलम्बमालाम् । निश्चाश्चल्यामात्म-
वक्रारविन्दे कुर्वन्नव्याद्देवकीनन्दनो वः ॥ १२३ ॥ पुञ्जी-
भूत प्रेम गोपाङ्गनाना मूर्तीभूत भागधेय यदूनाम् ।
एकीभूत गुसवित्त श्रुतीना श्यामीभूत ब्रह्म मे सनिध-
त्ताम् ॥ १२४ ॥| अानन्दमादधतमायतलोचनानामानील-
मावलितकधरमात्तवशम् । आपादमामुकुटमाकलितामृतौघ-
माकारमाकलयतामुपमान्तर न्नः ॥ १२५ ॥ त्वा पातु
नीलनलिनीदलदामकान्तेः कृष्णस्य पाणिसरसीरुहकोश-
बन्घः । राधाकपोलमकरीलिखनेषु योऽय कर्णौवतसकमल
विपुलीचकार ॥ १२६ ॥ उत्फुल्लमानसरसीरुहचारुमध्य-.
नियैन्मधुव्रतभरद्युतिहारिणीभिः । राधाविलोचनकटाक्षपर-
म्पराभिर्दृष्टो हरिंस्तव सुखानि तनोतु कामम् ॥ १२७ ॥
गोवर्घनोद्धरणहृष्टसमस्तगोपनानास्तुतिश्रवणलजितमानसस्य ।
स्सृत्वा वराहवपुरिन्दुकलाप्रकाशदष्ट्रोद्धृतक्षिति हरेरवतु स्लित
व ll १२८ |॥ अभिनवनवनीतप्रीतमाताम्रनेत्र विकचनलिन-
लक्ष्मीस्पर्धेि सानन्दवक्रम् । हृदयभवनमध्ये योगिभिध्यीन-
गम्य नवगगनतमालश्यामल कचिदीडे |॥ १२९ |॥ अभि-
नवनवनीतस्निग्धमापीतदुग्ध दधिकणपरिदिग्ध मुग्धमङ्ग'
मुरारेः । दिशतु भुवनकृच्छूच्छेदितापिच्छगुच्छच्छवि
नवशिखिपिच्छलाञ्छित वाञ्छित व. ॥ १३० ॥ कनककल-
शस्वच्छे राधापयोधरमण्डले नवजलधरश्यामामात्मद्युति प्रति-
विम्बिताम् । असितसिर्चयग्रान्तभ्रान्त्या मुहुर्मुहुरुत्क्षिपञ्जयति
जनितत्रीडाहासप्रियाहसितो हरि ॥ १३१ |॥
ट-- न्zrपr-