पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/69

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४ सिद्धान्तसिरोमणी ग्रहगणिते ‘‘निजेनैव तु मानेन कायुर्वर्षशतं स्मृतम् ॥ तत्पराख्यं तदर्ध तु परार्धमभिधीयते ॥' तत् कियन्तस्ते गता इत्याशङ्कायामाह ॥ यतोऽनादिमानित्यादि । यतः कालोऽनादिमान् । अतो ये गतास्तान्न वेद्मि ॥ २१-२५ ॥ वा० वा०-इदानीं 'ब्राह्ममानमाह खखाभ्रदन्तसागरैरिति ॥ २१-२४।। • एवं ब्रह्मण आयुर्दायमाह शतायुरिति अद्यावधि कियन्तः पद्मोद्भवा गता इति मन्दप्रश्नस्योत्तरमाह । यतोऽनादिमानेष इति । अनन्ता गता इत्युत्तरम् ॥ २५ ॥ इदानीमन्यदाह । V t C - e re-R A-A तथा वत्तंमानस्य कस्यायुषोऽधं' गतं सार्धवर्षाष्टकं* केचिदूचुः । भवत्वागमः कोऽपि नास्योपयोगो ग्रहा वर्त्तमानद्युयातात् प्रसाध्याः ॥२६॥ वा० भा०- तथा वर्तमानस्य ब्रह्मण आयु:कालस्य कि गतमिति न वेद्मि । तत्र केचिदाचार्या अायुषोऽर्धं गतं केचित् सार्धवर्षाष्टकं गतमित्यूचुः । तत्रागमः प्रमाणम् ॥ इहागमद्वौविध्ये कः प्रमाणमित्यत्रास्माकं नाग्रहः । यतोऽस्य गतैर्वषैर्दिनैरपि प्रयोजनाभावः ॥ ग्रहास्तु वर्तमानस्य दिवसस्य गतात् साध्याः ॥ २६ ॥ वा० वा०-अन्यदपि न वेद्मि आगमद्वैविध्यादित्याह तथा वर्तमादस्येति । ननु गतवर्षाज्ञाने ग्रहसाधनं कथं स्यादित्याशङ्कायां सयुक्तिकमुत्तरमाह भवत्वागम् इति ॥ २६ ॥ इदानी तत्कारणमाह । यतः सृष्टिरेषां दिनादौ दिनान्ते *लयस्तेषु सत्स्वेव तच्चारचिन्ता । अतो युज्यते कुर्वते तां पुनर्येऽप्यसत्स्वेषु तेभ्यो महद्भ्यो नमोऽस्तु ॥२७॥ वा० भा०-यत एषां ग्रहाणां दिनादौ सृष्टिदिनान्ते लयः । यदि महाकल्पगताद्ग्रहा: साध्यन्ते तहिं यावत्योऽस्य विभावयौं गतस्तासु ग्रहाभाव एव । अतो विद्यमानेष्वेव ग्रहेषु १. ब्रह्ममा क पु० । २. ‘आयुषोऽर्धमितं तस्य’ –इति सूर्यसिद्धान्तोक्तिः । 'कजन्मनोऽटौ सदला: समा ययु:”-चेति वटेश्वरसि० १ अ० १० श्लो० । ३. अत्र भगवदुक्तिः । * अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे ।। रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके ॥ ब्रह्मगुसः । ‘‘ग्रहनक्षत्रोत्पत्तिर्ब्राह्मदिनादौ दिनक्षये प्रलयः । यस्मात् कल्पस्तस्माद्भग्रहगणिते कल्पयाताब्दाः॥ श्रीपतिः ‘ज्योतिग्रहाणां विधिवासरादौ सृष्टिलयस्तद्वदिवसावसाने। यस्मादतोऽस्मिन् गणिते ग्रहाणां योग्यो मते नः खलु कल्प एव ।।' ( सि० शे० १ अ० २१ श्लो० ) ।