पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/60

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाधिकारे कालमानाध्यायः ?tw भवति । शश्वद्भ्रमतीति शश्वद्भ्रमे निरन्तरनियतपश्चिमगति: प्रवह एव । भान्यश्विन्यादीन्यष्टाविशतिसंख्याकानि। अन्यानि च लुब्धकादीनि ज्योतींषि तेषां समूहो भचक्रमित्युक्तं भाष्यकृता । तत्र नोदयन्ति । यथा परो 'धावतीत्यनेनान्योऽपि प्रतीयते, तथान्यानि च *ज्योतींषीत्यनेन दास्रादिनक्षत्राणामपि *तैजसत्वमभ्युपगतं प्रतीयते, तच्च सिद्धान्तविरुद्धमिति । अत्रोच्यते । परमतप्रसिद्धयभिप्रायेणोत्तत्वानैष दोषः । यद्वौपाधिक तैजसत्वं गृहीत्वोत ज्योतींषीति। अथवा चन्द्रव्यतिरिक्तानां ग्रहाणां* नक्षत्राणाञ्च तैजसत्वमेवाभ्युपगम्यते । अस्ति च तेषां परप्रकाशकत्वं* स्वाभाविकम् । औपाधिकपरप्रकाशकत्वे मानाभावात् । शशाङ्कस्य तैजसत्वे ग्रहणश्रृङ्गोनमनदशदर्शनाद्यनुपपत्तिः । तस्मादन्यथाऽनुपपत्त्या चन्द्रस्य जलमयत्वं स्वीक्रियते । अन्येषां तु तैजसत्वे न किविद्वाधकमस्तीति श्रीमदाचार्येणान्यानि ज्योतींषीति सम्यगुक्तम् । तदन्ततारे च ध्रुवत्वे नियुक्ते । तेषामश्विन्यादीनामन्तयोस्तारे भचक्रस्य सैमन्तात् पूर्वापरयोः स्थितत्वादन्तों नास्त्यतो दक्षिणोत्तरे ध्रुवत्वे स्थिरत्वे नियुक्ते निबद्धे । ध्रुवमध्यगं भवलयं गगनस्थितचुम्बकपाषाणद्वयान्तगताऽयोगोलवद्यथा न पतति तथा ध्रुवयोः स्थिरता कृतेति भावः । ननु भवलयस्य समन्तात् स्थितत्वेन कल्पादौ ग्रहाः कुत्र निवेशिता इत्यत्र विशेषणद्वारेणाह भगणादिसंस्थैरिति । दास्रनक्षत्रस्यादिसंस्थैरित्युक्तम् । यस्मादनवरतनियतपश्चिमगतौ स्थापितं तद्धतोरपराशाभिमुखं सखेचरे भपञ्जरे भ्रमत्यपि नभश्चरास्तदल्पगत्या पूर्वदिशं सच्चरन्ति। यत्तस्य प्रत्यग्भ्रमण तच्छीघ्रतरम्। एकेनाह्ना नाक्षत्रेण भमण्डलस्य परिवत्तः । तस्माद्याऽल्पा पूर्वा गतिस्तया व्रजन्तोऽपि झटिति नोपलक्ष्यन्त° इति तदल्पगत्येत्युतम् । नभश्चराः सङ्खरन्तीत्यनेन या पूर्वगतिः सा ग्रहशक्त्यैवेति सूचितम् । पश्चिमगतिस्तु प्रवहवशतो न स्ववशत इति । ततो भपञ्जरे सखेचरे भ्रमत्यपीत्यनेनोत्तम् । न ह्यश्विनीमुखे युगपतू सर्वेषामवस्थानं संभवतीति कुत्र सञ्चरन्तीत्यपेक्षायां भग्रहसंयोगे' मुहुरनुभूतम् । कक्षाणामूध्वधरत्वमाह'°-नीचोच्चतरात्मवत्र्मसु । अतिशयेन नीचोच्चानि यानि आत्मवत्र्मानि मार्गास्तेषु । केन क्रमेणेत्यत आह । तावदधश्चन्द्र इत्यादि । ननु कक्षाणामूर्ध्वाधरान्तरस्य विद्यमानत्वात् कथं भगणादिसंस्थैरित्युच्यते । सत्यम् । पूर्वापरान्तराभावं भमुखग्रहाणामभ्युपेत्योच्यते । भमुखग्रहाणा पूर्वापरान्तराभाव एव ज्ञायते । अत्र भूमध्ये सूत्रस्यैकमग्रं बध्वा द्वितीयमग्रं चाश्विनीमुखे निवेशनीयम्। तत् VJO सूत्रं ग्रहकक्षासु यत्र लग्नं तासु कक्षासु तत्राश्विनीमुखमित्युपचर्यते । तस्मिन् सूत्रे १. धावता, ख पु० । २. ज्योतां, ख ०पु। ३. तेजेसात्व, ख पु० । ४. ग्रहण ख पु० । ५. परकाश, ख पु० । ६. स्वापितम्, क पु० । ७. लक्ष्यत ख पु० । ८. सभव ख पु० । R. मग्रहग्रह क ख पु० । १०. मुघ्र्वा, क, ग० पु० । ।