पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/576

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

t3Y सिद्धान्तशिरोमणौ गोलाध्याये अनेनेष्टयुक्तेन गुणेन निघ्नो गुण्य इति कृतम् । ततोऽभीष्टघ्नगुण्यस्य सम्पत्यर्थं पुनरिटचापदोज्येंकोननवतिजीवा त्रिज्यान्तरेण गुण्या त्रिज्यया भाज्येति प्राप्ते गुणहरौ गुणेनापवत्य गुणगुणने रूपम् । हरस्थाने गोऽङ्गेषुषट् ॥ ६५६९ ॥ अत उपपन्नं स्वगोऽङ्गेषुषडंशेन वजिता ज्येत्यत्र गुणहरौ षड्भिरपत्त्य लब्धं ५७३ अत उपपन्नं कोटिज्या दशभिः क्षुण्णेत्यादि । यथेष्टकनिष्ठज्येष्ठाभ्यां ज्ञाताभ्यामन्यानि (पदान्युत्पद्यन्ते) ज्यानां भावनेत्युक्तम्। इदानीं चतुविंशतिजीवामध्ये इष्टज्याज्ञाने तत्पूर्वाज्याज्ञानमाह-साद्धवृत्तद्वयेनकोटिजीवेति । दोज्येति । तत्त्वदस्रा इति । अत्र वासना प्राग्वदेव । किन्त्वत्र तत्त्वदस्रा नगांशोना प्रथमजीवा तत् कोटिज्यात्रयोविशतिसंख्यजीवेति विशेषः ******** अथेष्टचापद्वयदोज्यकोटिज्याज्ञाने चापैक्यज्याज्ञानमाह-चापयोरिष्टयोदोज्यें इति । चापान्तरस्येति । अत्रेयं युक्तिः । अत्रेष्टचापचापैक्यज्ययोरन्तरं साध्यते । तत्रानुपातः । यदि त्रिज्यातुल्यया कोटिज्यया लघुचापदोज्यातुल्यं बृहच्चापचापैक्यज्यान्तरं लभ्यते तदा बृहच्चापकोटिज्यया किमिति जातं बृहच्चापचापैक्यज्ययोरन्तरम् । एवं यदि त्रिज्यातुल्यकोटिज्यया बृहच्चापदोज्यातुल्यं लघुचापचापैक्यज्ययोरन्तरं लभ्यते तदा लघुचापकोटिज्यया किमिति जातं लघुचापचापैक्यज्ययोरन्तरालम्। यदा शून्यतुल्यमेकं चापं द्वितीयं स्वेष्टं तदा स्वेष्टचापज्यातुल्यमेव शून्यमितज्याचापैक्यज्ययोरन्तरमिति बालैरपि बुध्यते । तस्माद्युक्तोऽयमनुपातः । बृहल्लघुसंज्ञे चापयोरसङ्कराद्यं धृते । अत उत्तम्-चापयोरिष्टयोर्दोज्ये मिथः कोटिज्यकाहते' । त्रिज्याभक्तै । इति । अनयोर्लब्ध्योर्योगश्चापैक्यज्येत्युक्तम् । वस्तुतस्तु लघुचापजीवायां लघुचापचापैक्यज्यान्तरयोज्यं बृहच्चापजीवायां बृहच्चापैक्यज्यान्तरालं वा योज्यमित्येवोचितं भवति । तथा किमिति न कृतमिति चेदुच्यते । तथा कृतेऽपि तत्त्वाऽश्विनो नन्दसमुद्रवेदा इति पठितज्यया चापैक्यज्यायाः साम्यादर्शनात् तस्य चात्र संभवाद्वासनोपलभ्यैव लब्धयोर्योगश्चापैक्यज्येत्युक्तम् । अत्रायमभिसन्धिः । यदा नवतिमितं बृहच्चापं लघुचापं स्वाभीप्सितं तदा लघुचापकोटिंज्यातुल्याचापैक्यज्याः पठितज्याभिर्भवन्ति । उत्तयुक्तया तु बृहच्चापजोवायास्त्रिज्यातुल्यत्वेऽष्टज्यान्तरस्य शून्यत्वात् त्रिज्यातुल्या चापैक्यज्या भवति । तयोर्लघुचापात्क्रमज्यातुल्यं परममन्तरम् । अतोऽनुपातः । यदि त्रिज्यातुल्यया लघुचापोत्क्रमज्यातुल्यमुक्तप्रकारानीतचापैक्यज्यायां न्यूनीकरणीयं तदेष्ट्या किमिति। फल खण्डद्वययोगात्मिकचापैक्यज्यायां शोध्यम्। तत्राचायेंण बृहच्चापज्यारूप एव खण्डे शोधितम् । तत्र समच्छेदविधिना बृहच्चापजीवायास्त्रिज्यैव गुणो हरश्च भवतः । गुण्यगुणयोः कामचार इति लघुचापोत्क्रमज्या गुणा ।