पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/478

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४३६
सिद्धान्तशिरोमणौ ग्रहगणिते

 

अथ शृङ्गोन्नतिवासना

 तत्र शुक्लत्वे कृष्णत्वे च कारणमाह

तर्राणिकिरणसङ्गादेष पीयूषपिण्डो दिनकरदशि चन्द्रश्वन्द्रिकाभिश्वकास्ति।
तदितरदिशिबालाकुन्तलश्यामलश्रीर्घट इव निजमूर्तंच्छाययैवातपस्थः'।।॥ १ ।।
सूर्यादधःस्थस्य विधोरधःस्थमर्धं नृदृश्यं सकलासितं स्यात् ।
दशेऽथ भार्धान्तरितस्य शुक्लं तत् पौर्णमास्यां परिवर्तनेन ॥ २ ।।
कचाचतुर्थों तरणेहिं चन्द्रकर्णान्तरे तिर्यगिनो यतोऽब्जात्।
पादोनषट्काट $8लवान्तरेऽतो दल नृदृश्यस्य दलस्य शुक्रम् ॥ ३ ॥
उपचितिमुपयाति शौक़यमिन्दोस्त्यजत इनं व्रजतश्च मेचकत्वम्।
जलमयजलजस्य गोलकत्वात् प्रभवति तीक्ष्णविषाणरूपतास्य ।। ४ ।।

यद्याम्योदक् तपनशशिनोरन्तरं सोऽत्र बाहुः
कोटिस्तूर्ध्वाधरमपि तयोर्यच्च तिर्यक् स कर्णः ।
दोर्मूलेऽर्कः शशिदिशि भुजोऽग्राच्चकोटिस्तदग्रे
चन्द्रः कणों रविदिगनया दीयते तेन शौक़यम् । ५ ।


१. अत्र श्रीपति:-

 घाम्ना धामनिधेरयं जलमयो धत्ते सुधादीधितिः

 सद्यःकृतमृणालकन्दविशदच्छायां विवस्वद्दिशि ।

 हम्ये घर्मघृणेः करैर्घट इवान्यस्मिन् विभागे पुन

 बाँलाकुन्तलकालता कलयति स्वेच्छा तनोश्छायया ।

       सि० शे० १० अ० २ श्लो० ॥

२. अर्धबिम्बसदृशे सिते विधोः खण्डिते वपुषि चार्धजीवया ।

 रूपमुद्वहति लोललोचना भालपट्टभवमेणलाञ्छनः ।

       सि० शे० .१० अ० २६ श्लो० ।।

३. अत्र ज्ञानराजः--

 भानुश्चेत्। प्रतिबिम्बितो जलमयो शीर्ताशुगोले दिवा

 निस्तेजा निशि सुप्रभः कथमथो किं सूर्यबिम्बासमः ।

 गोलार्ध रवि सोज्ज्वल च सकल न स्यात् तडागे यथा

 मासार्धेऽखिलदृश्यतेति गणकान् ज्ञानाह्वयः पृच्छति ॥