पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/467

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४२५
ग्रहणवासना



जिनज्याघ्नी द्युजीवा'सायनदिग्वलनं भवेत् ।
एवमेव हि संपाते विषुवत्समवृत्तयोः ।। ३३ ।।
उन्मण्डलं भवेत् तत्र विषुवद्दक्षिणोत्तरा |
क्षितिजं समवृत्तस्य पलज्या च तदन्तरम् ॥ ३४ ।।
क्षितिजेऽक्षज्यया तुल्यमक्षजं वलनं ततः ।
तयोरेकैव याम्योदङ्न मध्ये वलनं ततः ॥ ३५ ।।
नतक्रमज्यया साध्यमन्तरे त्वनुपाततः ।
नतं खाङ्काहतं भक्ततं द्युदलेनाप्तभागकैः ॥ ३६ ।।
क्रमज्याक्षज्यया क्षुण्णा द्युज्याभक्ताक्षजं भवेत् ।
प्राक् सौम्यं पश्चिमे याम्यं तच्चापैक्यान्तरात् स्फुटम् ॥ ३७ ॥
एवमेव च संपातो यः क्रान्तिसमवृत्तयोः ।
परमं तत्र तत्कालवलनैक्यान्तरं स्फुटम् ॥३८ ॥
अग्रतः पृष्ठतस्तस्मात् क्रान्तिवृत्ते त्रिभेऽन्तरे ।
तयोर्याम्योत्तरैकत्वात् तत्र नो वलनं स्फुटम् ।। ३९ ।।
न स्पष्टवलनाभावस्तत्र स्यादुत्क्रमज्यया ।
क्रमज्यया ततः कार्य दाठ्यर्थ कथ्यते पुनः । ४०||
सर्वतः क्रान्तिसूत्राणां ध्रुवे योगो भवेद्यतः ।
विषुवन्मण्डलप्राच्या धुवे याम्या तथोत्तरा ॥ ४१ ।
सर्वतः क्षेपसूत्राणा धुवाञ्जिनलवान्तरे ।
योगः कदम्बसंज्ञोऽयं ज्ञेयो वलनबोधकृत् ॥ ४२ ।।
तत्रापमण्डलप्राच्या याम्या सौम्या च दिक् सदा ॥
कदम्बभ्रमवृत्तं च बध्नीयात् परितो ध्रुवात् ॥ ४३ ।।
गोले तु जिनतुल्यांशैस्तत्र ज्या क्रान्तिशिञ्जिनी ।
सर्वतः समवृत्ताच्च याम्योदक्कुजसंगमे ।। ४४ ।।
तत्तिर्यग्गतसूत्राणां योगः स समसंज्ञकः ।
समधुवकदम्बानामुपरि द्युचरात्रयेत् ॥ ४५ ॥


१.अत्र बिम्बीयवलनमिष्ट चेद्दबिम्बीयद्युज्या ग्राह्या।

 सि०-५४