कक्षयोरन्तरं यत् स्याद्वत्रिभे सर्वतोऽपि तत् । |
वा० भा०-इदमेव छेद्यक याम्योत्तरायां भित्ती पूर्वपाश्वें लिखित्वा नत्युपपत्तिर्दर्शनीया । ये तत्र कक्षामण्डले ते दृक्क्षेपमण्डले । दर्शान्ते त्रिभोनलग्नस्य या दृग्ज्या स दृक्क्षेपः । द्वयोरपि तावान् । ब्रह्मगुप्समते तु तच्चापांशा वित्रिभलग्नशरसंस्कृताश्चन्द्रदृक्क्षेपचापांशाः स्युः । तयोर्वृत्तयोः खार्धात् स्वस्वदृक्क्षेपचापांशैर्नतौ बिन्दू कार्यौ । तौ च वित्रिभसंज्ञौ । ततः प्राग्वद्भूमध्याद् भूपृष्ठाच्च सूत्रे प्रसार्यं लम्बनलिसिका ज्ञेयास्ता नतिलिसिकाः । नतिर्नाम चन्द्रार्ककक्षयोयम्योत्तरमन्तरम् । तद्वित्रिभलग्नस्थाने यावत् सर्वतोऽपि तावदेव भवति । अतो दृक्क्षेपात् साधिता नतिः ॥ १६३-२० ।
वा० वा०--नतिलिताज्ञानार्थमाह- अथेति। ये कक्षामण्डले तेऽत्रेति । दृक्क्षेपमण्डलं नाम त्रिभोनलग्नट्टड्मण्डलम् । ब्रह्मगुसेन त्रिभोनलग्नवशेन लम्बनावनती साधिते तेन त्रिभोनलग्नट्टग्ज्याया स टुक्क्षेपो द्वयोरपीत्युक्तम् । तच्चापाशैरिति । कुतो दृक्क्षेपान्नतिसाधनं कृतमित्यत आह--कक्षयोरिति ॥ १७-२० ।।
इदानी स्फुटलम्बनार्थमाह--
यत्र तत्र नतादकदधश्चन्द्रावलम्बनम् । |