इदानीं दिननिशोलघुत्वमहत्वे हेतुमाह--
अतश्च सौम्ये दिवसो महान् स्याद्रात्रिर्लघुव्र्यस्तमतश्च याम्ये ।
द्युरात्रवृत्ते । क्षितिज्राद्धःस्थे रात्रिर्यतः स्याद्दिनम्ानमूर्ध्वे ॥५॥
सदा समत्वं द्युनिशोर्निरक्षे नोन्मण्डलं तत्र कुजाद्यतोऽन्यत् ।
वा० भा०--क्षितिजादुपरिस्थेऽहोरात्रवृत्तखण्डे यावान् कालस्तावान् दिवसः । यावांस्त
दधःस्थे तावती रात्रिरिति सुगमम् ॥ ५-५३ ॥
वा० वा०-अतश्चेति-षष्टिघटिकाडूितद्युरात्रवृत्तावयवो यावान् स्वक्षिति
जोपरि तावद्दिनमिति सम्यगुक्तम् । निरक्षे बद्धं क्षितिजमुन्मण्डलं तेन सर्वाण्यपि
द्युरात्रवृत्तान्यद्धितानि कृतानि । उन्मण्डलादुपरि यावदहोरात्रं तावदधस्तातु ।
उत्तरध्रुवः स्वोत्तरक्षितिजादुपरि दृश्यते साक्षदेशस्थैरस्माभिरिति सौम्यगोले स्वक्षि
रि उन्मण्डलं याम्येऽधश्चेति महदह इत्यादि ।
निरक्षे कुजादन्योन्मण्डलाभावाद् द्युनिशोः समत्वमित्याह सदेति ॥ ५-५३ ।।
इदानी विशेषमाह--
षट्षष्टिभागाभ्यधिकाः पलांशा यत्राथ तत्रास्त्यपरो विशेषः ॥ ६ ।।
लम्बाधिका क्रान्तिरुदक् च यावत् तावद्दिनं सन्ततमेव तत्र ।
यावच्च याम्या सततं तमिस्रा ततश्च मेरौ सततं समार्धम् ॥ ७ ।।
वा० भा०--यत्र देशे षष्ट्षप्टे ६६ रधिका: पलांशास्तत्रायं विशेषः । अर्कस्योत्तरा
क्रान्तिर्यावत्कालं लम्बाधिका भवति तावत्कालं सन्ततं दिनमेव । याम्या क्रान्तिर्यावत् तावत्
सन्ततं रात्रिरेव ॥ तद्यथा । यत्र किल ससतिः ७० पलांशास्तत्र लम्बो विशतिः २० । तत्र
देशे विषुवद्वृत्तं दक्षिणक्षितिजाडुपरि भार्गावंशत्योत्तरक्षितिजादधश्च तावता । यदा रवेरुत्तरा
क्रान्तिर्भाविशतिर्भवति । तदोत्तरक्षितिजे रविबिम्बमधर्षोदितं भूत्वा मध्याह्न दक्षिणक्षितिजादु
परि याम्योतरमण्डले भागचत्वारिंशतोन्नतं भवति। तदा त्रिशद्घटिका दिनदलम्।
अतो दिनं षष्टिः ॥ रात्रिः शून्यम् ॥ ततो द्वितीयदिन उत्तरक्रान्तेरधिकत्वाद्रविरुत्तरक्षितिजं न स्पृशति ।
एवं प्रतिपर्ययं परमक्रान्ति यावदुपर्युपरि परिभ्रमति । एवं मिथुनान्त उत्तरक्षितिजादुपरि
भागचतुष्टयं याति ॥ पुनस्तेनैव क्रमेणावरोहति । विशतिभागाधिकृा क्रान्तिर्यावत् तावत्कालं
रविः सततं दृश्यः । तावद्दिनमेव । अनयैव युक्तया दक्षिणगोले क्षितिजादध्रःस्थेऽर्के सन्ततं रात्रि
रिति । अत एव मेरौ षण्मासं दिनम् ।। ५३-७ ।।
वा० वा०-यत्र षट्षष्टिभागाः पलांशास्तत्र कर्कादिस्थितार्के षष्टिघटीमितं
दिनं न तत्र रात्रिः । किन्त्वकखण्डं लोहितं क्षितिजस्थं क्षणमात्रं भवति । तस्मिन् देशे
मकरादिस्थाकें सायने षटिघटीमिता रात्रिन किञ्विद्दिनम्। तत्राप्यर्कबिम्बार्द्धलौहित्य
दर्शन क्षितिजे ।
रसषट्पलांशपर्यन्तं द्युनिशोः षष्टिघटीमध्येऽवस्थानं तद्देशादग्रे षष्टिघटी
भ्योऽधिकमप्यवस्थानं संभवतीति तत्प्रतिपादयति-षट्षष्टिभागाभ्यधिका इति ।
लम्बाधिका क्रान्तिरित ।