पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/443

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४०१
गोलबन्धाधिकारः

वाराणसीतः पञ्चदशयोजनान्तरे पूर्वा दिगवस्थिते कुसुमपुरे स्थितस्य च किय
दन्तरमिति त्रयोर्विशतियोजनात्मकमन्तरं तथात्रेति सुगमम् ।
 सौरे तु विलोमगत्या गतपातस्य चक्रशोधनेन यावदवशिष्यते तावता
राश्याद्यवयवेन मेषादेरनुलोमगत्या पातचिह्म' ज्ञायत इति पातग्रहयोरेकदिगव
स्थितत्वेनान्तरं कृतम् । यद्यपि वक्रगतौ ग्रहेऽद्यतनग्रहचिन्हात् स्पष्टग्रहराश्याद्य
वयवेनाद्यतनश्वस्तनग्रहचिन्हमनुलोममेव भवतीति धनायनांशयुतस्पष्टग्रहादवक्रगतौ
वक्रगतौ वा ग्रहे क्रान्तिः साध्यते ॥
 ननु नाडीमण्डलक्रान्तिमण्डलसंयोगस्य नाडीमण्डलाश्रितत्वेन क्रान्तिपातस्थानस्थे
स्पष्टग्रहे सायनस्पष्टखेटक्रान्तिसाधनोत्तर्मध्यमक्रान्त्यभावस्तत्रव नाडिकावृतखेटान्तराले
स्पष्टोऽपम इत्यनेन स्पष्टक्रान्त्यभावोऽपि स्यात् । स्पष्टक्रान्त्यभावो द्वेधा संभवति ।
मध्यमक्रान्तिशररूपयोः स्पष्टक्रान्तिखण्डयोर्युगपदभावातुल्यत्वेन दिगन्यत्ववियोज
नाद्वा । तत्र युगपदभावोऽपि सार्वदिकः कादाचित्को वा । क्रान्तिपातयुतात् स्पष्टखे
टान्मध्यमक्रान्तिसाधनाच्छरपातयुतान्मन्दस्पष्टाच्छरसाधनात् क्रान्तिपातशरपातगति
वैषम्येन मन्दस्पष्टस्पष्टयोरन्तरसद्भावेन च सार्वदिकयुगपदभावो न संभवति ।
मध्यमक्रान्त्यभावे स्पष्टखेटस्य नाडिकामण्डलाश्रितत्वेन नित्यं स्पष्टक्रान्त्यभावेन
भाव्यमिति कादाचित्को युगपदभावः क्रान्तिशरयोर्वक्तुमशक्यः । मध्यमक्रान्त्यभावे
मध्यमक्रान्त्युत्पत्तिर्बाधितैवेति । मध्यमक्रान्तिशरयोस्तुल्यत्वेन दिगन्यत्ववियोजनं न
संभवति । यदा मध्यमक्रान्त्यभावस्तदा शराभाव इति' नियमाभावान्नाडिकावृत्तखेटा
न्तराले२ऽपम इति सदुक्त 3तदयुक्तम्।
 किचात्र खेटशब्देन स्पष्टो वा मन्दस्पष्टो वा विवक्षित: । स्पष्टविवक्षायां
स्पष्टादेव शरसाधनं स्यात् । मन्दस्पष्टविवक्षायां मध्यमक्रान्तिसाधनं मन्दस्पष्टादेव
स्यात् । तस्मान्मध्यमक्रान्त्यभावे नाडीमण्डलाश्रितस्पष्टस्य शरोत्पत्या स्पष्टक्रान्ति
मध्यमक्रान्तिसद्भावे नाडीमण्डलादन्यत्र स्थितस्यापि स्पष्टक्रान्त्यभावश्च स्यादिति
नाडिकावृत्तखेष्टान्तरालेऽपम इति यदुतं तदयुत्तमिति चेत् । उच्यते । ग्रहनाडीमण्ड
लयोर्दक्षिणोत्तरमन्तरं स्पष्टक्रान्तिरिति नाडिकावृत्तखेटान्तरालेऽपम इति शोभनम्।
 ग्रहस्तु विमण्डले भ्रमतीति ग्रहाश्रितविमण्डलावयवनाडीमण्डलसम्पातो यदा
तदा स्पष्टकान्त्यभावः ।
 क्रान्तिवृत्तस्थस्पष्टग्रहचिहूं यदा नाडीमण्डले तदा मध्यमक्रान्त्यभावो भवति
न तदा स्पष्टक्रान्त्यभावो ग्रहस्य शराग्रे स्थितत्वात् ।
 यन्त्रवेधविधिना ग्रहस्य स्पष्टा क्रान्तिः शरोऽपि प्रत्यक्षं गृह्यते । प्रत्यक्षोपलब्ध
शरस्तु मन्दस्पष्टसाधितशरेणैव सम्वदतीति मन्दस्पष्टाच्छरसाधनं क्रियते । मध्यम-


१. नियशभावा, इति खपु० ।

२. लैयम इति खपु० ।
३. वाक्यप्रिद खपु० नास्ति ।
  सि०-५१