पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/400

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३५८
सिद्धान्तशिरोमणौ गोलाध्याये

 शृङ्गोन्नतिग्रहयुतिग्रहणोदयास्तच्छायादिकं परिधिना घटतेऽमुना हि ।  नान्येन तेन जगुरुक्तमहीप्रमाणप्रामाण्यमन्वययुजा व्यतिरेककेण ।

 व्याससिद्धान्तेऽपि पञ्चसहस्रमितैवोक्ता । पुराणोक्तभूगोलप्रमाणस्यानुमानादिप्रमाणविरुद्धस्य विषयान्तरं मृग्यम् ।

 केचितु कोटिशब्दस्यानेकार्थाभिधायित्वेन शतपरत्वात् पुराण-गणितशास्त्रयोरविशेध इत्याहुः । कोटिशतांशं लक्षमभिप्रेत्य तादृशलक्षेन जम्बूद्वीपपरिमाणं वदता बादरायणेन योजनमितमेव तन्मानमुक्तमिति कथं तन्मतेन स्यात् । क्षारसमुद्रोऽपि योजनपरिमाणक एव स्यादिति यत्किञ्चिदेतत् ।

 पौराणिकैः समुदिता पृथिवी ग्रहक्षसंस्थानमानगतयः परमार्थतस्ताः ।  कल्पान्तरे तु किल सम्प्रति कालबोधशास्त्रोदिताः सुमतिभिः परिवेदितव्याः ।

 इति यदुक्तं तदपि वक्तुमशक्यम् । ब्रह्मदिनान्तरूपब्राह्यलये योजनमात्रभूमिवृद्धिनाशाभ्युपगमेन सर्वभूमिनाशानभ्युपगमात् । आचार्योऽपि वक्ष्यति—

 ब्राह्म लयं ब्रह्मदिनान्तकाले भूतानि यद्ब्रह्मतनु व्रजन्ति।  वृद्धिविधेरह्नि भुवः समन्तात् स्याद्योजनं भूभवभूतपूर्वेः ॥  ब्राह्मो लये योजनमात्रवृद्धनशोभुवः प्राकृतिकेऽखिलायाः ॥

 इति । वर्तमानकल्पान्तर्गतानन्तरगतद्वापरान्ते गुरुपुत्रानयने कृष्णोऽर्जुनायेदं प्रदर्शयामासेति व्यासोत्तर्महाकल्पान्तरविषयमपि वत्कुमशक्यम् । युद्धनिधनं " गताः कर्णाभिमन्युदुर्योधनादयः पुत्रभ्रातृदुःखाभितप्तानां धृतराष्ट्रपाण्डवादीनां प्रदशिताः । कर्णादिस्त्रीणां सम्पूर्णरात्रिमध्ये कर्णादिमिलनमचिन्त्य तयो वीर्येण येन बादरायणेन विहितस्य मुनेः `पञ्चाशत् कोटिविस्तीर्णं भूमण्डलमिति, पुराणप्रतिपादनं पञ्चसहस्रमितभूपरिमाणमिति, स्वसिद्धान्तप्रतिपादनादभिप्रायान्तरमाक्षिपति । अस्मदादिनिवासभूमेविश्वमयविराट्स्वरूपान्तर्गतभूमिरन्यैव भवितुमर्हति । कुरुक्षेत्रेऽर्जुनाय भगवता भक्तजनमनःक्लेशापहारिणा हरिणा ‘दिव्यं ददामि ते चक्षुः पश्य ये योगमैश्वरमिति’’ भगवद्गीताश्रवणातू । हस्तनापुरे दुर्योधनसभायां जात्यन्धाय धृतराष्ट्राय चक्षुवंतीर्य विश्वरूपं प्रदशितं तत्र कर्णदुर्योधनादयोऽपि प्रदशिता इति उद्योगपर्वश्रवणाच्च ।

 एकार्णवीभूतं भूतलमिदमवलोक्यास्मिन् भूतले कुत्रापि स्थितिमलभमानेन *मृकण्डमुनिना लीलया शिशुत्वमापन्नस्य हरेरुदर प्रविश्य च विश्वरूपं । दृष्टमिति भारतश्रवणाच्च । विश्वमयस्वरूपान्तर्गता भूमिः पञ्चाशत्कोटिविस्तीर्णा । तस्यात्र्च समुद्रातू समुद्रो द्विगुणः द्वीपाच्च द्वीपो द्विगुणस्तत्र च सूर्याच्चन्द्र उपरिग इति न किञ्चिद्विरुद्धम् । भूतले घटः प्रदशित इत्यनेन भूतलाच्च घटभेदप्रतीतिरिव कुरुक्षेत्रे विश्वरूपप्रर्दाशतमित्यनेनास्मदादिनिवासभूमेर्विराट्स्वरूपान्तर्गता भूमिभित्रैव । सा च भूमिर्दिव्यचक्षुर्गाह्यव । विराट्स्वरूपान्तर्गतब्रह्माण्डतदन्तगंतभूवलय-


१. पञ्चात्रात् इ. क पु० ।।           २. मृकडमूनुना इ. क पु० ।