पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/377

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३३५
गोलस्वरूपप्रश्नाध्यायः


अथात्मनो गोलग्रन्थस्य प्रवृत्त्यर्थमन्योक्तिप्रकारेणाह-

गोलं श्रोतुं यदि तव मतिर्भास्करीयं शृणु त्वं

नो संक्षिप्तो न च बहुवृथाविस्तरः शास्त्रतत्त्वम् ।

लीलागम्यः सुललितपदः प्रश्नरम्यः स यस्माद्विद्वन्

विद्वत्सदसि पठतां पण्डितोर्त्तितं व्यनत्ति ॥९॥

 वा० भा०-स्पष्टम् । ९ ।

इति गोलप्रशंसा

 वा० वा०-अन्योतिप्रकारेणात्मनो गोलस्य वैशिष्टद्यमाह-गोल श्रोतु इति स्पष्टम् ॥ ९ ॥

श्रीमत्कौङ्कणवासिकेशवसुतप्राप्तावबोधाद्बुधाद्भ

ट्टाचार्यसुताद्दिवाकर इति ख्याताज्जनि प्राप्तवान् ।

य: कृष्णस्तनयेन तस्य रचिते सद्वासनावात्तिके,

सत्सिद्धान्तशिरोमणेरियमगात् गोलप्रशंसा स्फुटा ॥

अथ गोलस्वरूपप्रशनाध्यायः

अथ भूसंस्थानप्रश्न श्लोकद्वयेनाह -

भ्रमद्भचक्रचक्रान्तर्गगने गगनेचरैः ।

वृता धृता धरा केन येन नेयमियादधः ।।१।।

किमाकारा कियन्माना नानाशास्त्रविचारणात् ।

कीदृग्द्वीपकुलाद्रीन्द्रसमुद्रैर्मुद्रितोच्यताम् ॥२॥

 वा० भा०-इर्य भूगगनेचरैः खेचरैवृता केन धूता सती गगने परितो वर्तमानेऽधो नेयान्न गच्छेत् । कथमियं गगने स्थितेत्यवगतम् । यतो भ्रमद्भचक्रचक्रान्तर्वर्तते । भानां चक्रं संमूहः । भचक्रमेव चक्र भचक्रम्। यदि भूमेमूर्ताधारपरंपराङ्गीक्रियते तदा समन्ताद्वर्तमानघनभचक्र स्याधारे स्खलितस्य भ्रमण नोपपद्यत इत्यर्थ:। तथा च सा भूः किमाकारा कियन्माना द्वीपानां कुलावलेन्द्राणां च कीदृगवस्थानमिति सर्व नानाशास्त्रविचारणात्। बौद्धादिप्रतिवादिपक्षमधरीकृत्योच्यतामित्यर्थः । १-२ ।

 इवानों ग्रहस्फुटीकरणोपपतिप्रश्नान् श्लोकद्वयेनाह

संसिद्धाद्द्युगणाद्युगादिभगणैः खेटोऽनुपातेन यः

स्यात् तस्यास्फुटता कथं कथमथ स्पष्टीकृतिनेंकधा ।