पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/358

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३१३
तदिनैरेष्यगतैरिति

 यथासंख्येन । यद्यूना लिप्सा भक्तास्तदैष्यदिवसा z लब्धाः । यदाधिकाः कलास्तदा गतदिवसाः । तैर्दिवसैरेष्यैर्गुणिता भुक्तिकलाः पृथक् स्थाप्याः । ततो दिवसावयवघटीभिः पुनर्गुणिता भुक्तिः षष्टया हृता लब्धकलाभिमिश्रिताः पूर्वकला ग्रहे योज्याः ॥ यदि गतदिनैर्गुणिता भुक्तिस्तदा शोध्याः । एवं रवेविधोः पातस्य च तात्कालिकीकरणम् । तात्कालिकयोश्चन्द्राकयोः सायनांशयोर्योगे भार्धं चक्रतं वा भवतीत्यर्थः । ततस्तयोस्तात्कालिकयोरपक्रमौ साच्यो ।

 अत्र वासना प्रकटैव । सा यथा । यदा रविशशियोगो भार्ध चक्र वा तदासन्न: क्रान्तिसाम्यस्य संभव इति यदुक्तं तस्यायमभिप्रायः । ययोर्योगे राशिषट्कं चक्रतं वा भवति तयोरवश्यं भुजस्तुल्य एव स्यत् । भुजस्य तुल्यत्वावस्फुटशशिक्रान्ते रविक्रान्तेव तुल्यत्वमेव । किंतु स्फुटक्रान्तिस्तस्मिन् काले रविक्रान्तेः सकाशाच्छरेणोनाधिका वा भवतीत्यर्थः । तात्कालिकीकरणवासना सुगमैव ॥९-९ ।।
 इदानी तस्मात् कालात् क्रान्तिसाम्यस्य गतैष्यत्वप्रतिपादनार्थमाह'

यदि भवति तदा ज्ञेयो यातः पातस्तदन्यथा गम्यः ।० भा० -

ओजपदे विषमपदे वर्तमानस्येन्दो: स्फुटा क्रान्तिर्यदा महती भवति। कस्मात्। सूर्यापमात्। तथा यदि समपदे शशी भवति। तस्य क्रान्तिर्यदा सूर्यापमाल्लघुर्भवति तदा गतः पातः । यातं क्रान्तिसाम्यम् । अस्माल्लक्षणादन्यथा तहि गम्यम् ॥

अत्रोपपत्तिः—रविस्तावत् स्थिरगतिश्चन्द्रोऽतीव चलस्तस्यैव क्रान्तेः प्रतिक्षणमन्यथात्वम् ॥ अतश्चन्द्रमधिकृत्योच्यते अत्रौजपदे वर्तमानस्य विधोः क्रान्तिरुपचये वर्तते । यथा यथा ग्रहोऽग्रतो याति तथा तथा तस्य क्रान्तिविषमपद उपचीयते । प्रथमपदस्य तृतीयपदस्य च गोलसन्धावादिः । तदग्रतस्त्रिभेऽन्तरे क्रान्तेः परमत्वम् । अतो विषमपदे वर्तमानो यथा यथाग्रतो याति तथा तथा क्रान्तिरुपचीयते । ततस्त्रिभात् परतो द्वितीयगोलसन्धि यावत् समपदम् । तत्र वर्तमानो यथा यथाग्रतो याति तथा तथा क्रान्तिरपचीयते। एवं तृतीयचतुर्थपदयोरपि । अत ओजपदे वर्तमानस्येन्दोः क्रान्तिर्यदा सूर्यापमान्महती तदाग्ने चालितस्येन्दोरतिशयेन महती भवति । यदि यथा यथा पृष्ठतश्चाल्यते शशी तथा तथा क्रान्तिरूनेव भवति । अत ऊनया रविक्रान्त्या सह साम्यं गतमेवानुमितम् ॥ अथ समपदे वर्तमानस्य विधोः क्रान्तिर्लघ्वी सूर्यापमाद्भवति तदापि पृष्ठतश्चालितस्येन्दोः क्रान्तिर्महती भवति । अतो महत्या सूर्यक्रान्त्या सह साम्यं गतमिति ज्ञातम् । अस्मल्लक्षणादन्यथात्वे क्रान्तिसाम्यमेष्यमित्यर्थाज्ज्ञायते । अतो गतगम्यत्वलक्षणं युक्तमुक्तम् ॥९३-१०॥

१. अत्र श्रीपतिः-विषमपदसमुत्थेऽपक्रमे शीतरश्मेर्महति खलु गतोऽकक्रान्तितः पातकालः । लघुवपुषि च भावी कर्कनष्क्रादिजाते स भवति भविता चेत् स्याल्लघीयस्यतीतः' सि० शे० = अ० ७ शलो० ।।

सि० -४०