पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/343

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२९८
सिद्धान्तशिरोमणौ ग्रहगणिते

 वा० वा०-अथ ग्रहयुत्यधिकारः । व्यङ्घ्रीषव इति । त्रिज्यातुल्ये शीघ्रकर्णे लक्षितान्येतानि । परमाल्पाधिककर्णयोः प्रोक्तबिम्बत्र्यंशतुल्यान्यधिकोनानि बिम्बानि लक्षितानि । शीघ्रकर्णत्रिज्ययो: परमन्तरमन्त्यफलज्या तुल्यम् । सौरे तु 'त्रिचतुकर्णयोगाप्ता' इत्यत्र मन्दकर्णचलकर्णयोग इति व्याख्यातं शाकल्यसंहितानुसारि । त्रिज्याशीघ्रकर्णयोग इति यद्व्याख्यानं क्रियते तद् भास्कराचार्यसिद्धान्ताभ्यासवशात्। यदा च भेदयोगस्तदा न दृक्कर्मदानं ग्रहणादन्ययोग इति ब्रह्मसिद्धान्तोत्तः । तदा ग्रहयुतिकाले लम्बनसंस्करणम् । शरे च नतिसंस्करणम् । भेदयोगादन्यत्र दृक्कर्मदानं
 दृक्कर्मणैव तत्सिद्धेर्भग्रहग्रहसङ्गतौ । लम्बनावनती न स्तामपि सत्यन्तरद्वये ।
 इष्टं लम्बनमन्यत्र ‘यदिष्टावनतिर्भवेदिति' ब्रह्मोक्तेः ।
 यदा च ग्रहयोर्दिनगततुल्यत्वं तदैव युतिरित्यायनाक्षदृक्कर्मद्वयं दातव्यम् ।
यदा च ध्रुवसूत्रस्थयोरेव युतिर्ग्रहयुतिरिति सोममतं तदायनमेव दातव्यम् ।

 द्वितीयं पापदृष्टीनां दृक्कर्म मुनिसत्तम ।
 द्वितीयमेव दृक्कर्म नेच्छत्युक्तमदृष्टयः ।
 शास्त्रीयव्यवहारो हि लौकिकं निःप्रयोजनम् ॥
 केचिदन्येऽपि नेच्छन्ति तादृक् प्रत्यक्षकारणातू ।
 इति ब्रह्मोत्तः । ‘द्वितीयमेतद् दृक्कर्म केचिन्नेच्छन्ति सूरयः'
 इति सोमसिद्धान्तोत्तेश्च । तत्राचार्येण ध्रुवसूत्रस्थयोरेव युतिः स्वीकृता ।

तस्माद्ग्रहयोरुदयलग्नतुल्यत्वं तदैव युतिरिति सम्यगुक्तम् । चन्द्रग्रहणे चन्द्रे दृक्कर्मदानं ज्ञानाधिराजोत्तमप्युक्तमिति सौरभाष्येv प्रतिपादितम् । ‘गत्यन्तरस्य तिथ्यन्ताः परलम्बनलिप्तिकाः' ।। सूर्यग्रहणोत्तप्रथमप्रकारेणैव ग्रहयोर्नतिः साध्या शेषं भाष्ये स्पष्टम् ॥ १ ॥

श्रोमत्कौङ्कणवासिकेशवसुतप्राप्तावबोधाद्बुधाद्
भट्टाचार्यसुताद्दिवाकर इति ख्याताज्जनि प्राप्तवान् ।
य: कृष्णस्तनयेन तस्य प्रचिते सद्वासनावात्तिके
सत्सिद्धान्तशिरोमणेग्रीहयुतिर्याता विशेषैर्युता ॥
 [ इति नृसिहकृतौ ग्रहयुत्यधिकारः ]

   अथासौं स्फुटीकरणमाह--

त्रिध्न्या निजान्त्यफलमौर्विकया विभक्ता
लब्धेन युक्तरहिताः क्रमशः पृथक्स्थाः ।
ऊनाधिके त्रिभगुणाच्छवणे स्फुटाः स्युः
कल्प्यं खलु त्रिकलमङ्गुलमत्र बिम्बे ॥२॥


१. सू० सि० ७ अ० १४ श्लो० । किन्तु 'त्रिचतुःकर्णयुक्त्यासा' इ मु० पु० ।