पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/331

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८७
ग्रहोदयास्ताधिकारः

 वा० भा० -एवं य इष्टकालांशा आनीतास्ते भोक्तेभ्यो यदि स्वल्पा भवन्ति तदा ग्रहस्योदयो गम्यः । यद्यधिकास्तदा गत इति वेदितव्यम् । अतोऽन्यथास्तमय इति । उक्तेभ्यो यदीष्टाः स्वल्पास्तदा ग्रहस्यास्तमयो गतो यद्यधिकास्तदा गम्य इति ॥ अथ प्रोक्तानामिष्टकालांशानां च या अन्तरे कलास्ता अष्टादशशतै: १८०० गुण्या दृग्ग्रहाक्रान्तस्य राशेः स्वदेशोदयासुभिर्भाज्याः । फलकलानां ग्रहार्कभुनघन्तरेण वक्रगे ग्रहे भुक्तियोगेन भागे गृहीते यल्लब्ध ते गता एष्या वा दिवसा भवन्त्युदये वास्तमये वा । तैदिवसेस्तात्कालिकी दृग्ग्रहाकों कृत्वैवमसकृत्कर्मणा सम्यक तत्कालज्ञानं भवति ।

 --इष्टकालांशस१धने लग्नवासनैव । प्रोक्तानां कालांशानामन्तर्वतीं ग्रहोऽदृश्यो भवति । अतो यावदिष्टा न्यूनास्तावददृश्यः ॥ उदये विलोक्यमान उदेष्यति ! अस्ते विलोक्यमानेऽस्तं गत इत्यर्थाज्ज्ञायते । इष्टा यद्यधिकास्तदा प्रोक्तेभ्यो बहिर्भूतत्वाद्ग्रहो दृश्यः । उदये विलोक्यमान उदितः । अस्ते विलोक्यमानेऽस्त यास्यतीत्यर्थाउज्ञायते । अथ तेषां प्रोकतेथान कालांशानां या अन्तरे कलास्तासां क्षत्रलिसीकरणायानुपातः । यावत्य: कालकलास्तावन्त एवासवो भवन्ति ॥ अथ यदि दृग्ग्रहोदयासुभिरष्टादशशतानि १८०० क्षत्रलिप्सा लभ्यन्ते तदा तदन्तरकलासुभिः किमिति ॥ फलं क्षत्रलिसाः । ता ग्रहार्कभुक्तयन्तरेण भाज्याः । भुवत्यन्तरं हि क्षेत्रलिसान्तरात्मकमतः सजातीयकरणाय क्षेत्रलिसीकरणम् । भुक्त्यन्तरेणेको दिवसो लभ्यत इति युक्तमुक्तस् । वक्रे तु भुक्तियोग एव भुक्त्यन्तरम् । दूरान्तरे स्थूलकालो भवतीत्यसकृत्कर्म सूक्ष्मार्थम् ।। ७३-१० ।।

 अथ विशेषमाह—

{{block center|

 प्राग्दृग्ग्रहश्चेदधिको रवेः स्यादूनोऽथवा पश्चिमदृग्ग्रहश्च ।
प्रोक्तकेष्टकालांशयुतेः कलाभि साध्यास्तदानीं दिवसा गतैष्याः ॥११॥
तथा यदीष्टकालांशाः प्रोक्तकेभ्योऽभ्यधिकास्तदा ।
व्यत्ययश्च गतैष्यत्वे ज्ञेयोऽह्वां सुधिया खलु ॥ १२ ।।

 वा० भा०-यदि प्राग्दृग्रहो रवेरधिको भवति। अथवा पश्चिमदृग्ग्रहो न्यूनो भवति तदा य इष्टकालांशा अनीतास्तेषां प्रोक्तानां च योगकलाभिदिवसाः साध्याः । नान्तरकलाभिः ॥ तथा प्राग्दृग्ग्रहेऽर्कादधिके सति पश्चाद्दुग्ग्रहे वा न्यूने य इष्टकालांशीा आगतास्ते च यांव प्रोक्तेभ्योऽभ्यधिका भवन्ति तदा प्रोक्तेष्टकालांशयुतेः कलाभिर्ये दिवसाः साधितास्तेषां दिवसानां गतेष्यत्वे विपर्ययो ज्ञेयः ।

 अत्रोपपत्तिः--यो ग्रहः प्राच्यामुदेति प्रतितिष्ठति वा असौ रवेरूनः सन् पश्चिमायामधिकः सन् प्राच्यां दिशि प्रोंतकालांशैरूनः सन् प्रदृश्यतामेति । तावद्भिरेव पश्चिमायामधिकः सन् ॥ अतो रवेः पृष्ठतः प्राच्यां प्रोक्तकालांशाः प्रतीच्यामग्रतः । प्राच्यामूने ग्रहे य इष्टकालांशाः साध्यन्ते ते रवेः पृष्ठतः । अतः पृष्ठगतैरेव प्रोक्तकालांशैस्तेषामन्तरं कर्तुं युज्यते । अथ प्राच्यां रवेरधिके दूग्ग्रहे य इष्टकालांशाः साध्यन्ते ते रवेरग्रतो भवन्ति । अतोऽग्रगतानां पृष्ठगतानां च