सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/329

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८४
सिद्धान्तशिरोमणौ ग्रहगणिते

 तत्र यदुदयलग्नं तत् प्राग्दृग्ग्रहसंज्ञं वेदितव्यम् । यदस्तलग्नं तत् पश्चिमदृग्ग्रहसंज्ञं वेद्यम् । यदि प्राग्दृग्गह इष्टलग्नादल्पो भवति तदा ग्रह उदित इति वेदितव्यम् । यदाधिकस्तदोदयं यास्यतीति ज्ञयम् ॥ एवमुदयगतैष्यताज्ञानम् । अथ पश्चिमदृग्ग्रह इष्टलग्नाद्यदाल्पस्तदा ग्रहोऽस्तं गत इति वेदितव्यम् । यदाधिकस्तदा यास्यतीति च ज्ञेयम् ।

 अत्रोपपत्तिः--इष्टलग्नादुग्ग्रह ऊनः क्षितिजादुपरि वर्ततेऽत उदितः । यदाधिकस्तदा। क्षितिजादधोऽत उदेष्यतीति युक्तमुक्तम् । एवमिष्टलग्नाद्ग्रहस्यास्तलग्ने न्यूने ग्रहः प्रत्यक्क्षतिजादधो वर्ततेऽतोऽस्तं गतः । अधिके तु प्रत्यक्क्षतिजादुपरि वर्ततेऽतोऽस्तं यास्यतीति ।। १-१३ ।।

 इदानों तदन्तरधटि काज्ञानमाह

तदन्तरोत्था घटिका गर्तेष्यास्तचालितः स्यातूस निजोदयेऽस्ते ॥२॥
तल्लग्नयोरन्तरतोऽसकृद्याः कालात्मिकास्ता घटिकाः स्युराक्ष्र्यः । अभीष्टकालयुचरोदयान्तर्यड्रेटकालांद्युचरास्तमध्ये ॥३॥

 वा० भा०- इष्टलग्नात् प्राग्दृग्ग्रहो यदोनस्तदा तयोरन्तरघटिकाः प्राग्वत् साधिता गता भवन्ति । ताश्च सावनाः ॥ अथ ताभिग्रहस्य भुक्त संगुण्य षष्टया विभज्य फलकलाभिरूनितो दृग्ग्रहो निजोदयकालिको भवति । अथ तस्येष्टलग्नस्य चान्तरघटिकाः साध्याः । एवमस कृद्यावत् स्थिरा भवन्ति । ताः कालात्मिकाः । ग्रहोदयेष्टकालयोर्मध्य एतावत्यो नाक्षत्रा गतघटिका इत्यर्थः । एवमेष्या अपि । एवमस्तेऽपि कालात्मिकानां घटिकानां गतागतानां साधनम् ॥

 अत्रोपपत्तिः-लग्नघटिकानां नाक्षत्राणां साधने प्रागुक्तैव । एवं ग्रहस्य प्रवहवशेन, प्रतिदिन यावुदयास्तौ तौ निरुती । १३-३।

 इदानीमर्कासन्नभावेन यावुदयास्तो तदर्थमाह—

निरुक्तै ग्रहस्येति नित्योदयास्ताविनासन्नभावेन यौ तौचवच्ये ।
रवेरूनभुक्तिर्ग्रहः प्रागुदेति प्रतीच्यामसावस्तमेत्यन्यथान्यः ॥ ४ ।।

 वा० भा०-यो ग्रहो रवे: सकाशादूनभुक्तिरसौ प्राच्यां दिश्युदेति प्रतीच्यामस्तमेति । यथा भौमो गुरुः शनिश्च । योऽधिकभुक्तिरसौ प्रतीच्यामुदेति प्राच्यां प्रतितिष्ठति ॥ 呀呀T零丐:1

 अत्रोपपति:- यो मन्दगतिग्रहो दिनकरकरनिकटतयाऽदृश्यतां गतः । असावकें शीघ्रतया पुरतो गच्छति सति ग्रहो मन्दगतित्वात् पृष्ठतो विलम्बितः प्राच्यां दिश्यकोदयात् पूर्वमेब दृश्यो भवति। अथ यो मन्दगतिग्रहोऽकादधिक आसीदसौ शीघ्रतया रवेस्तदासन्नतां गच्छति तदा तत्करनिकरावगुण्ठितः प्रतीच्यामसावस्तमेति । अनपैव युक्त्याधिकभुक्तिः प्रतीच्यामुदेति प्राच्यां प्रतितिष्ठति । ४ ।।

 वा० वा०-अथोदयास्ताधिकार:। तत्रास्तमनं द्विविधम्-एक प्रवहवशेन नित्योदयास्तमनम् । द्वितीयमिनासन्नभावेन ।