२६४
सिद्धान्तशिरोमणौ ग्रहगणिते
गर्भसूत्रे सदा स्यार्ता चन्द्रार्को समलिसिको ।
दृक्सूत्राल्लम्बितश्चन्द्रस्तेन तल्लम्बर्न स्मृतम् ।
दृग्गर्भसूत्रयोरैक्यात् खमध्ये नास्ति लम्बनम् ।
अथ याम्योत्तरायां तु भित्ती पूर्वोत्तमालिखेत्।
ये कक्षामण्डले ते तु ज्ञेये दृक्क्षेपमण्डले ।
त्रिभोनलग्नदृग्ज्या या स दृक्क्षेपो द्वयोरपि' ।
तच्चापशैिनती बिन्दू कृत्वा वित्रिभसंज्ञकी।
प्राग्वद्दृक्सूत्रतश्चन्द्रवित्रिभस्य नतिर्नतिः ।
कक्षयोरन्तरं यत् स्याद्वित्रिभे सर्वतोऽपि तत् ॥
याम्योत्तरं नतिः सात्र दृक्क्षेपात् साध्यते ततः ॥
यत्र तत्र नतादकदिधश्चन्द्रावलम्बनम् ॥
तद्दृग्वृत्तेऽन्तरं चन्द्रभान्वोः पूर्वापरं तु तत् ॥
पूर्वापरं च याम्योद्दग्जातं तेनान्तरद्वयम् ।
अत्रापमण्डलं प्राची तत्तियदक्षिणोत्तरा ॥
यत् पूर्वापरभावेन लम्बनाख्यं तदन्तरम् ।
यद्याम्योत्तरभावेन नतिसंज्ञं तदुच्यते ॥
नतिलिप्ता भुजः कणों दृग्लम्बनकलास्तयोः ।
कृत्यन्तरपक्वं कोटिः स्फुटलम्बनलिप्तिकाः ॥
परलम्बनलिप्ता ६ ध्नी त्रिज्या ३४३८ प्ता रविदृग्ज्यका ।
दृग्लम्बनकलास्ताः स्युरेवं दृक्क्षेपतो नतिः ।
गत्यन्तरस्य 'ॐ* तिथ्यंशः ४८ ॥ ४६ परलम्बनलिप्तिकाः ॥
गतियोजन *४६*< तिथ्यंशः ६° कुदलस्य यतो मितिः ॥
स्युर्लम्बनकला नाडयो गत्यन्तरलवोद्घृताः ।
प्रागग्रतो रवेश्चन्द्रः पश्चात् पृष्ठेऽवलम्बितः ॥
शीघ्रेऽग्रगे युतिर्याता गम्या पृष्ठगते यतः ।
प्रागृणं तद्धनं पश्चात् क्रियते लम्बनं तिथौ ॥
याम्योत्तरं शरस्तावदन्तरं शशिसूर्ययोः ॥
नतिस्तथा तया तस्मात् संस्कृतः स्यात् स्फुटः शरः ।। ७ ॥
|
वा० वा०-कदा लम्बनाभाव: कथ च लम्बन धनर्ण भवतीत्यत्राह-दर्शान्तलग्नं प्रथमं विधायेति ।
त्रिभोनलग्नतुल्येऽर्के लम्बनाभावः स्वीकृतः सोऽपि युक्त एव । यतः क्रान्तिमण्डलस्य परमनीचस्थानं लग्ने
तस्मात् सप्तमे च भवत्युच्चस्थानं वित्रिभ एवेति। यैरपि मध्यलग्नतुल्येऽकें लम्बनाभाव उच्यते । तैरपि
त्रिभोनलग्नदृग्ज्याशङ्कवशेन नतिर्लम्बनं च साध्यते । 'नताशबाहुकोटिज्ये स्फुटे दृक्क्षेपट्टग्गति २इत्यत्राये
१. त्रिभोनलग्नदृग्ज्याकदृक्क्षेपोऽस्माद्विधोश्च य इति पाठान्तरम् ।
२. इत्यत्राप्ययकर्थमिति ग पु० ।