पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/304

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५९
सूर्यंग्रहणाधिकारः


एव स्यात् । न पूर्वापरमन्तरं लम्बनाख्यम् । यत्र षट्षष्टिभागाः पलांशास्तत्रेदं सम्भवति । यदा च याम्योदङ्मण्डलस्थे यत्र कुत्राप्यवस्थिते रविचन्द्रबिम्बकेन्द्रे भवतस्तदापि समकलकाले मध्यलग्नट्टग्ज्यानुपातलब्धनतितुल्यमेवार्कचन्द्रयोर्याम्योत्तरमन्तरं भवति न पूर्वापरमन्तरं लम्बनाख्यम् । त्रिज्यातुल्यमध्यलग्नट्टक्क्षेपेणेयम् ॥४८॥४५॥ परमानतिस्तदेष्टेन किमित्यनुपातः ।

 ननु समकलकाले याम्योदङ्मण्डलस्थे यदा रविचन्द्रकेन्द्रे भवतस्तदा मध्यलग्नमिति दक्षिणोत्तर इत्यनेन सूर्यतुल्यं मध्यलग्नमुचितं, कथं मध्यलग्नदृग्ज्यावशेन नतिः साध्यते । न सूर्यदृग्ज्यावशेनेति चेत् । सत्यम् ।। सूर्यदृग्ज्यातोऽपि साधितनतौ तत्र फलाविशेषः । याम्योदङ्मण्डलादन्यत्रस्थे रवौ या नतिरुत्पद्यते सा तु मध्यलग्नदृग्ज्यात एव साधयितुं युज्यते । मध्यलग्नस्य सर्वदा याम्योत्तरवृत्तस्थत्वात् । तस्मान्मध्यलग्नदृग्ज्यातः साधनमुचितं नतेः । देशकालविशेषेण यथावनतिसंभव इत्युक्त सौरे

'मध्यलग्नसमे भानौ हरिजस्य न संभवः ।
अक्षोदङ्मध्यमक्रान्तिसाम्ये नावनतेरपि ।

 इत्युक्तञ्च । एवं सममण्डलभूगर्भक्षितिजसम्पाते लम्बनं परमं दृग्गर्भसूत्रयोरन्तरं परमत्वात् । `परममन्तरमिदं ४८॥४५॥ नात्र नतिरुत्पद्यते क्रान्तिमण्डलस्य सममण्डलवदवस्थानात्। सममण्डलभूगर्भक्षितिजसम्पातादन्यत्र क्षितिजेऽपि रवौ परमान्यूनमेव लम्बनमुचितम् । ततोऽनुपातः । यदि त्रिज्यातुल्य मध्यलग्न*शङ्काविदं परमलम्बनं तदेटे किमिति क्षितिजे युक्तम्। '

 एवमभीष्ट'क्षितिजलम्बनमानीय क्षितिजयाम्योत्तरवृत्तान्तरालस्थे रबौ लम्बनानयनार्थमनुपातोऽन्यः । त्रिज्यातुल्यमध्यलग्नाकन्तिरदोज्र्यया लम्बनमिदं तदेष्टया किमिति कार्यः। मध्यलग्नहग्ज्यावशेनापि नतिसाधनं मध्यलग्नशङ्कनापि लम्बनसाधनं सूर्यसिद्धान्ते प्रतीयते। 'नतांशबाहुकोटिज्येऽस्फुटे दृक्क्षेपट्टग्गती' इत्यनेन पूर्व नतांशा मध्यलग्नेनैव६ °कृतास्त एव नतांशाः । अत्र स्फुटत्वविशेषणं लग्नाग्रागुणितमध्यलग्नट्टग्ज्यायास्त्रिज्याभक्तायाः यत्फलं तत्फल° वगॉनमध्यलग्नट्टग्ज्यावर्गीस्य यत्पदं दृक्क्षेपस्तस्या* स्फुटत्वं द्योतयति तज्जनितदृग्गतेरपि ।

 एवं प्रसिद्धं लम्बनं प्रसिद्धां च नति वच्मि । येन कारणेन भूपृष्ठनिष्ठो भिन्नकक्षास्थौ चन्द्राकौं नैकसूत्रे पश्यतीति गोले वासनाभाष्येऽपि स्पष्टा वासनोता ॥ १।


१. सू० सि० सू० ग्र० १ श्लो० । २. परमर्ममिदम्, इति ग पु० ।

३. लग्न शकविदमिति ग० पु० ।

४. वाक्यमिद ग पु० नास्ति। ५. सू० सि० सू० ग्र० ७ श्लो० ॥

६. मध्यलग्नस्यैव, इति ग पु० । ७. क्रता इति ग पु० ।

८. वगोन्मध्य इति ग पु० । ९. तथेति ग पु० ।