पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/297

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५२
सिद्धान्तशिरोमणौ ग्रहगणिते


तावदाक्षं द्युज्यावृत्तक्रान्तिवृत्तयोरन्तरं तत्रायनं वलनम् । उपवृत्तात्क्रान्तिवृत्तावधि स्तस्मिन् त्रिज्यावृत्ते स्पष्टवलनम् ।

 ततो द्युज्याऽनुपातो युक्तः । तस्मात्क्रमज्यया युक्तं नोत्क्रमज्येति ‘यत्खस्व स्तिकगे रवौ इति । यत्राक्षोऽङ्गरसा इति सम्यग् वदिष्यति । भाष्ये सर्वमेवं स्फुटमुक्तम् ।

 सुर्यसोमवषिष्तधिसिधन्तेषु वलनं दृक्कर्म चोत्क्रमज्यया कार्यमिति नोक्तम् । एवं शाकल्ये उत्क्रमज्यया प्रतीयते वलनसाधन, तदपि सौरभाष्येऽस्माभि: क्रमज्यापर सम्यग् व्याख्यातं युक्तत्वाद् बहूनामनुग्रहस्य न्याय्यत्वाच्च ।

 केचिदायनवलनानयने शरसंस्कृतां क्रान्ति परमां गृहन्ति तदप्ययुक्तम्। बिम्बमध्यात् स्पष्टवलनाग्रीपरिगतं सूत्र क्रान्तिवृत्तप्राचीपरिलेखे तस्याः कोटिवच्छर दानं न स्यात् । तन्मते विमण्डलप्राचीसिद्धति वलनाग्राच्छरदानं कोटिवत्कथभपि युक्तं न स्यात् । अत एव वक्ष्यते ‘तत्रापमण्डलं प्राची तस्या याम्योत्तरः शरः इत्यत्र ।

 केचित्तु ध्रुवाभिमुखं शरं मन्यन्ते तदप्ययुक्तम् । यदि क्रान्तिसूत्रे शरस्तदा। ध्रुवाभिमुखः स्यात् । निरक्षे ध्रुवः क्षितिजस्थस्ततो ध्रुवाभिमुखशराग्रस्थो ग्रहः क्षितिजं कदापि न जह्यादित्यायनदृक्कर्मसाधनं दत्तजलाञ्जलिः स्यात् । स्पष्टवल नाग्रचिह्नात् स्पर्शमोक्षशरौ कोटिवन्न देयौ, तत्पक्षे ध्रुवसूत्र एव नेयौ । मध्यशरोऽपि स्पष्टवलनसूत्रे न देय इत्यापद्यत ।

 ग्रहनक्षत्रादेः क्रान्तिवृत्तस्थानचिह्नमुन्मण्डले यदोदेति न तदा ग्रहनक्षत्राद्यु दयस्तस्य कदम्बाभिमुखः शराग्रे स्थितत्वात् । क्रान्तिवृत्तग्रहचिह्रोदयात् कालान्तरेण ग्रहोदयदर्शनं शरस्य कदम्बाभिमुखत्वमाक्षिपति । ग्रहगोले क्रान्तिमण्डले विमण्डले च ग्रह दत्वा विमण्डलस्थग्रहोपरि द्युज्यावृत्ते बद्ध दृक्कमोंपपतिबलैिरपि बुध्यते।

 एवं क्रान्तिवृत्तग्रहस्थानं खगोलोन्मण्डल यावन्नीयते तावद्विमण्डलस्थो ग्रहो नामित उन्नामितश्चायनपृषत्कयोरेकभिन्नकुकुभोदृश्यते । ध्रुवाद्विमण्डलस्थितग्रह प्रति नीयमानं वृत्ताकारं सूत्रं क्रान्तिवृत्ते लगति तत्र कृतदृक्कर्मको ग्रहः ।

 क्रान्तिवृत्तग्रहस्थानदृक्कर्मदत्तग्रहस्थानयोरन्तरं क्रान्तिवृत्ते भुजः ।। क्रान्तिवृत्त ग्रुहस्थानविमन्मद्सस्यग्रुहकेन्द्रयोरमन्थरम् तिर्यग्गणितागतशरः कर्णः । दृग्ग्रहस्थानविमण्ड स्थग्रहयोन्तरं क्रान्तिसंस्कारयोग्यः स्पष्टशरः कोटिः । ग्रहस्य मध्यमक्रान्त्यग्रे यत् द्युज्यावृत्तं तस्य शराग्रस्य च यदन्तरमृजु* सैवेयं कोटिः । कदम्बद्वयं ज्ञात्वा कदम्ब द्वयसूत्रे क्रान्तिवृतस्थग्रहोपरि नेये। एवं ध्रुवसूत्रेऽपि क्रान्तिवृतस्थग्रहचिह्नोपरि नेये च । ततो यदि गणितागतशरो याम्यस्तदा याम्यकदम्बसूत्रे देयः, यदोतरस्तदोत्तरे। एवं कदम्बसूत्रगतशराग्रस्य ध्रुवसूत्रेण यावदन्तरं तावदादायनम् दृक्कर्मेति स्पष्टम् । गोले यद्बद्धं क्रान्तिवृत्तं तस्य केन्द्रं कदम्बः । नाडीमण्डलस्य


१. नाप्यत्वाच्चेति ग पु० पाठः। । २. मृतु इति ग पु० ।