सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/294

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४९
चन्द्रग्रहणाधिकारः

  यथा नाडीमण्डलक्रान्तिमण्डलसम्पाते ग्राह्यबिम्ब न्यस्तमेवमिष्टद्युज्यावृत्तक्रा
न्तिवत्तसम्पाते ग्राह्यबिम्बकेन्द्रे न्यस्ते बिम्बप्रान्तगतयुज्यावृत्तसम्पाताद्विम्बप्रान्तगत
क्रांतिवृत्तसम्पातो यावतान्तरेण भवति तावदिष्टकाले बिम्बव्यासार्द्र आयनं वलनम् ।
यतो द्रष्टा द्युज्यावृत्तसंपातादबिम्बप्रान्तगानुसारेण बिम्बे पूर्वापरां मन्यते । यदाऽयनादी
ग्राह्यकेन्द्र तदा बिम्बप्रान्ते द्युज्यावृत्तापवृत्तवशेन पूर्वापरसूत्रमेकमेव भवितुमहति
द्वयोर्याम्योत्तरसूत्रैक्यात्। अयनप्रदेशादन्यत्र यथा द्युज्यावृत्तक्रान्तिवृत्तैक्ये न्यस्तबिम्ब
केन्द्रे द्युज्यावृत्तक्रान्तिवृत्तवशेन पूर्वापरसूत्रे याम्योक्तरसूत्रे च भिन्ने दृश्येते तथा
नयनादौ याम्योत्तरसूत्रं भिद्यते यतः सर्वदिशां वलनम् । अतोऽनुपातैर्वलनमायनं
साधितं तद्युक्तं परन्तु तत् त्रिज्यावृत्तीयं जातम् ।

 यदा विषुवद्वृत्तस्थं खमध्येऽर्कबिम्बं तदा भूमध्यात् खस्वस्तिकस्थग्रहकेन्द्रं
प्रति नीयमानं त्रिज्यासूत्रं दण्डवत् स्यात् । तदुपरिस्थं बिम्बं छत्रवत्सममेव स्यात् ।
यतस्तत्परितस्त्रिज्यावृत्ते' यत्र वलनज्या देया तदपि भूसममेव स्थितमतस्तत्र
यथागतमेव वलनम्। यदा किल मेषान्ते ग्रहस्तदा तत्क्रान्त्या नाडीमण्डलखस्वस्ति
कादुतरे नतं बिम्बं स्यात्। त्रिज्यासूत्र तदा कर्णरूपं स्यात्। द्युज्यासूत्र कोटिरूपम्।
क्रान्तिज्या भुजः । यथा किञ्चित्कर्णस्थित्या धृते दण्डे छत्रमपि तत्प्रतिस्पद्धिन्या दिशा
कर्णरूपं भवति। तथा वलनज्ययापि कर्णरूपिण्या भवितव्यम्।

 यत् पूर्वमानीतं क्रान्त्यन्तरं लम्बसूत्रप्रतिस्पद्धितत्कोटिरूपं जातं तस्य कर्णरूप
करणायानुपातः । यदि द्युज्याकोटद्या त्रिज्या कर्णस्तदानया क इति सर्व शोभनम्।

 निरक्षे त्वायनवलनमेव साक्षेऽक्षवशात्सममण्डलान्नाडीमण्डलभिन्नत्वेनाक्षां
वलनमुत्पद्यते। अत्रापि सममण्डलनाडीमण्डलसम्पातेऽर्कबिम्बं मुद्रिकाकारं विन्यस्य
बिम्बकेन्द्राद्विम्बा ग्रे नाडीमण्डलसममण्डलयोर्यावदन्तर तावद्वलनमाक्ष परमम् । यथा
नाडीमण्डलात् क्रान्त्यन्तरे द्युज्यावृत्तं निबद्धं तथा शङ्कतलाग्रसंस्कारजन्यभुजान्तरे
सममण्डलादुपवृत्तं कल्प्यं तदपि भांशैरङ्क्यम् । बाहुवर्गोनत्रिज्यावर्गस्य पदं तस्मिन्
वृत्ते द्युज्यावद्व्यासाद्ध स्यात् ।

 निरक्षे तु पलभाया अभावात् सर्वदा क्रान्तिज्यातुल्य एव भुज इति यदेव
द्युज्यावृत्तं तदेवोपवृत्तं स्यात् । सममण्डलनाडीमण्डलसम्पाते सममण्डलमेवोपवृतम् ।
नाडीमण्डलं द्युज्यावृतम् । अत्रापि द्युज्यावृत्तोपवृत्तैक्ये बिम्बं विन्यस्य बिम्बाग्रे
यावदन्तरमुष्पवृत्तयुज्यावृत्तयोस्तावदाक्ष वलनम् । यतो निरक्षस्थो द्युज्यावृत्तानुसारेण
बिम्बे पूर्वापरां मन्यते।

 साक्षदेशस्थस्तु स्वोपवृत्तानुसारेण मन्यते । तदिष्ह साध्यते । द्युज्यावृत्तोप
वृत्तयोर्यां प्राक्पश्चिमसम्पातौ तयोज्यवत्रिबद्ध यत्सूत्रं द्युज्यावृत्ते उपवृत्ते च तावती
नतासु ज्या भवति। तावदियं साध्यते ।


१. वृत्तमिति क ख ग पु० ।

 सि०-३२