पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/276

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्द्रग्रहणाधिकारः ኛቑ8 वा० वा०-कक्षासाधनयुतथा चन्द्रार्कयोयोंजनकर्णावानीय पठति। 'नगनगाग्निनवाष्टरसो' इति । अवनिमध्यत इत्यनेन भूगर्भो विवक्षितः । सर्वं गणितजातं तस्मादेव प्रवृत्तम् । तस्मादयं योजनकर्णो भूव्यासाद्धनो भूपृष्ठात्स्यात् ॥ ३ ॥ इदानीमस्य योजनात्मककर्णस्य स्फुटीकरणार्थ कलाकर्ण तावदाह मन्दश्रुतिद्राक्श्रुतिवत् प्रसाध्या तया त्रिभज्या द्विगुणा विहीना । त्रिज्याकृतिः शेषहृता स्फुटा स्याल्लिप्ताश्रुतिस्तिग्मरुचेर्विधोश्च ॥४ ।। वा० भा०-यथा ग्रहस्य शीघ्रकर्मणि कर्णः साधितस्तथार्कस्य विधोश्च पृथक् पृथङ् मन्द कर्ण: साध्यः । त कर्ण द्विगुणाया २ स्त्रिज्याया विशोध्य शेषेण त्रिज्याकृतिभा ३या । फल स्फुटः कलाकर्णो भवति । एवं विधोश्च ॥ अत्रोपपतिः-इह स्पष्टीकरणे ये मन्दनीचोच्चवृत्तपरिधिभागाः पठितास्ते त्रिज्यातुल्ये कक्षाव्यासाधे । यदा ग्रहस्य कर्ण उत्पन्नस्तदा कणों व्यासार्थ ग्रहकक्षायाः । अतस्त्रराशिकेन तत्परिणतास्ते कार्याः । यदि त्रिज्याव्यासार्ध एते मन्दपरेिधिभागास्तदा कर्णव्यासार्धे क इति ॥ एवं परिधेः स्फुटत्वं विधायासकृत् कर्णः कार्यः । स कलाकर्णः स्फुटो भवति । एतदसकृत्कर्मोपसंहृत्य सकृत्कर्मणा कर्णस्य स्फुटत्वं कृतम् । प्रथमं यः कर्ण अागतस्तमेव त्रिज्यारूपं प्रकल्प्य स्फुटः कर्णोऽत्र साध्यते । यदा किल कर्णस्त्रिज्यातो न्यूनो भवति यावता न्यूनस्तत् त्रिज्यया संयोज्य यद्यधिकी वर्तते यावताधिकस्तत् त्रिज्याया विशोध्य शेषेणानुपातः । यद्यनेन त्रिज्या लभ्यते तदा त्रिज्यया किमिति' । अनेनानुपातेन स्फुट: कर्णः सकृद्धवति। अत्र धूलीकर्मणा प्रत्यक्षप्रतीतिः । `४ ॥ * इदानी योजनात्मककर्णस्य स्फुटत्वमाह लिप्ताश्रुतिध्नखिगुणेन भक्त स्पष्टी भवेद्योजनकर्ण एवम् । वा० भा० - स्पष्टार्थम्। अत्रोपपत्तिस्त्रैराशिकेन -यदि त्रिज्याव्यासार्घ ए१ावान् स्फुटः कर्णस्तदा योजनात्मकव्यासाधे किमिति । फल भूमध्याद्ग्रहोच्छुितियोजनानि भवन्ति । ४३ । वा० वा०-भूगर्भादागतयोजनकर्णस्य स्पष्टत्वमाह-मन्दश्रुतिरिति । शीघ्रकर्णवन्मन्दकर्णः साधयितुं न शक्यते । स्पष्टमन्दकर्णगुणितस्य त्रिज्याहृतस्य मन्दपरिधेः

  • स्वेनाहते परिधिना भुजकोटिजीवे भांशैहते तु भुजकोटिफलाहुये स्तः । *त्रिज्या तथा कोटिफलेन युक्ता होना च तद्दो: फलवर्गयोगान्मूल' मन्दकर्ण इति मन्दकर्णज्ञानं तज्ज्ञाने च स्पष्टमन्दपरिधिज्ञानमित्यन्न्योन्याश्रयदोषात् १. अथवा त्रिज्यामिते शेषेऽसकृत्कर्मोत्पन्नस्त्रिज्यातुल्यः कणों लभ्यते तदेष्टशेषेण किमिति

व्यस्तत्रैराशिकेन तदेव फलम् । ۔ ۔’’ R. सि० शि० ग० स्प० २६ श्लो० । ३. सि० शि० ग० स्प० २८ श्लो० ।