इदानीमस्यानयनस्य व्यसिदर्शनार्थमन्यं प्रश्नमाह--
पृथक् पृथक् ता गणक प्रचक्ष्व रूढा सगोले गणिते मतिश्चेत्।।१०४।। |
वा० भा० अत्रापि क्रान्तिज्यां विषुवत्प्रभारविहतेस्तुल्यां प्रकल्प्येत्यादिना कल्पिता क्रन्तिज्या । ततोऽग्राकुञ्ज्ये च साधिते । क्रान्तिज्या ६० । अग्रा ६५ । कुज्या २५ अासां युत्यानया १५० यद्येताः पृथक् पृथग् लभ्यन्ते तदा सहस्रद्वितयेन २००० किमिति लब्धा क्रान्तिज्या ८०० ! अग्रा *३६ । कुज्या 333 । १०४ ।
इदानी नलकयन्त्रेण ग्रहविलोकनप्रकारमाह--
प्रत्यङ्मुखी पूर्वकपालसंस्थे पूर्वामुखी पश्चिमगे ग्रहे सा ॥१०५॥ |
वा० भा०-यस्मिन् दिने ग्रह ग्रहण ग्रहयुति श्रृंङ्गोन्नति वा नलकयन्त्रेण दर्शयितु मिच्छति तस्मिन् दिने तस्मिन् काले तस्य ग्रहस्य ग्रहच्छायोक्तप्रकारेण छायां कर्णं भुजं कोटि चानीय नलकयन्त्र निवेशयेत्। तत्रायं सूत्रावतारः । 'विधाय बिन्दु समभूमिभाग' इति । जलसमीकृतायां भूमौ बिन्दु कृत्वा श्रुवादिना दिक्साधनं च कृत्वा बिन्दोरुपरि प्राच्यपरा रेखा कार्या । ततो यदि तदा ग्रहः पूर्वकपाले वर्तते तहि बिन्दोः सकाशात् कोटिः प्रत्यङमुखी देया । यदि पश्चिमकपाले ग्रहस्तदा पूर्वाभिमुखी । तत: कोटच्यग्राद्भुजो याम्य: सौम्यो वा यथादिग्दातव्यः । तथा बिन्दो: सकाशाच्छायाप्रमाणा शलाका भुजाग्राभिमुखी प्रसार्या ॥ छायाभुजशलाकाग्रयोर्यत्र योगस्तत्र सूत्रस्यैकमग्रं धृत्वा द्वितीयमग्रं बिन्दूपरि नवेशितस्य शङ्कोरप्रसक्तं तिर्यक्कणंगत्या प्रसार्य कस्मिन्नप्युच्चर्व्वंशे बध्नीयात् । ततस्तया सूत्रगत्या नलकतं निवेशयेत् । एतदुक्ततं भवति । नलकसुषिरगर्भे यथा तत् सूत्रं भवति तथा नलक: केनचिदाधारद्वयेन स्थिरः कायंः । यथा नलकस्य मूलं दृगुच्चं भवति । एवं नलकमूलस्थितया दृष्टया नलकसुषिरेणादिष्टकाले ग्रहादिक दशंयेद्गगने। १०५-१०७। इदानी जले विलोकनार्थमाह--
तथैव धायों नलको विलोक्यो बिन्दुस्थतीये सुषिरेण खेटः ॥ १०८॥ |